________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
दण्डविवेकः ।
कण्टकः प्रकाशतस्करः। लवश इति शरीरमांसं खण्डखण्डमुत्कर्त्तयेदित्यर्थः। दण्डस्यातिमहत्त्वादभ्यासविषयमेतदित्याहुः। देवब्राह्मणराजसुवर्णविषयमिति मिताक्षरा। तथा तचैव याज्ञवल्क्यः,कूटसुवर्णव्यवहारौ विमांसस्य च विक्रयो ।
यङ्गहौनास्तु कर्त्तव्या शास्याश्चोत्तमसाहसम् ॥ विभिर्नासाकर्णकरैरिति हलायुधादयः। कूटसुवर्णव्यवहारौ रसवेधाद्यापादितवर्णोत्कर्षादिना सुवर्णव्यवहारकारौत्युक्तम् । विमांसविक्रयौ श्वादिमांसानां हरिणादिमांसत्वेन विक्रेता प्रतिभाति ।
पूर्वावाक्ये हेमकारमिति लिङ्गादन्यायेन हेमविक्रय एव गम्यते मिताक्षरासम्बादात् । स च दण्डगौरवश्रवणात् रजतमिश्रणादिविलक्षणः कूटकरणादिरूप एवावसीयते । छेदयेल्लवश इति श्रवणादङ्गानां छेदो गम्यते । तत्र क्षुरैरिति खड्गादिविलक्षणकरणश्रवणादङ्गानां लघुत्वं प्रतीयते।
एवं मनुवचनं याज्ञवल्क्यवचनेन सममेकविषयमेव कल्पनालाघवात् । तेन कूटसुवर्णकारिणोऽवयवत्रयछेदः शारीरो दण्ड उत्तमसाहसाख्यश्चार्थ इति दण्डसमुदायो वाक्यसमुदायार्थः । याज्ञवल्क्यः,
मृचर्म-मणि-सूत्रायः-काष्ठ-पाषाण-वाससाम् । अजातौ जातिकरणे विक्रौयाऽष्टगुणो दमः॥
१ ग अङ्गहीनास्त।
For Private And Personal Use Only