________________
Shri Mahavir Jain Aradhana Kendra
१०४
www.kobatirth.org
दण्ड़विवेकः ।
भिन्नो न्यूनः तेन पणन्यूनमूल्ये वस्तुनि तथा कुर्व्वतः पञ्चाशत् पणः । पणमूल्ये शतं पणाः, द्विपणमूल्ये शतद्दयं पणो दण्डः, शताधिकमूल्ये त्वनेनैव क्रमेण दण्डeffectर्थः ।
मनुः,
Acharya Shri Kailassagarsuri Gyanmandir
अत्र च स्वस्तिकरुचकादिपानपात्रादि वा घटयितुं समर्पितस्य सुवर्णादेरेकदेशमपहृत्य दहनध्यापनावर्त्तनाद्युपक्षौणतया तदपहारं गोपयतः सुवर्णकारादेरपहृतद्रव्यानुसारेण दण्डः प्राप्तः । तत्रोपक्षयः तत्तद्द्रव्यनियमेन नारदादिभिरुक्तोऽपि नेह परिगृहीतः । व्यवहारिकस्य तस्यैव व्यवहाराङ्गत्वात् । अतएव तन्तुवायोर्णवायविषयविशेषेो मन्वादिभिरुक्तोऽपि नाचोक्तः ।
अथ भिषजो दण्डमाह ।
अज्ञातौषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते स दण्ड्यचौरवद्भिषक् ॥ अत्र रोगिविशेषे दण्डविशेषव्यवस्थामाह । याज्ञवल्क्यः,—
भिषमिथ्या चरन्द्याप्यस्तिर्य्यक्षु प्रथमं दमम् । मानुषे मध्यमं राजमानुषे तुत्तमं तथा ॥
अच तिर्य्यगादिषु मूल्यविशेषेण राजप्रत्यासत्तिविशेषेण च दण्डानां गुरुलघुभावश्च कल्पनीय इति मिताक्षरा ।
१ ६ पुस्तके दमम् ।
For Private And Personal Use Only