________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
__ कारवोऽच प्रतिमाघटकादयः। रजकादय इति मिताक्षराकारः। तेषां सावाधमिति पौड़ाकरमधैं कर्ममूल्यम् ये लाभलाभात् कुर्वन्ति ये वा राजस्थापितमूल्यस्य हासं दृविञ्च समय कुर्वते तेषां सहस्रपणात्मको दण्ड इत्यर्थः। तब राज्ञो मूल्यव्यवस्थापनकालमाह मनुः,पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथवा गते ।
कुव्वौत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ यव्यं चिरेण निष्कामति तत्र पाक्षिक परीक्षणमन्यत्र पाञ्चराषिकमित्यौत्सर्गिको व्यवस्था ।
अस्थिरार्घाणां प्रतिपञ्चराचं स्थिरप्रायार्घाणां प्रतिपक्षमिति मनुटौका।
प्रत्यक्षमिति अवकाशपक्षे स्वयमेवैतद्राज्ञा परीक्षणीयमन्यथा तु प्रत्ययितपुरुषहारैव। तत्र शङ्खलिखितवचनं लिखितमधस्तात्। परीक्षाप्रकारमाह स एव,
आगमं निर्गमं स्थानं तथा वृद्धि-क्षयावुभौ। विचार्य सर्वशस्यानां कारयेत् क्रयविक्रयौ ॥ शस्यपदमुपलक्षणमाद्यर्थं वा बहुवचनं कड़ारा इतिवत् । तेन पञ्चविधपण्यपरिग्रहः । तत्र नारदः,क्रयविक्रयधर्येषु सब्ब तत्पण्यमुच्यते । गणिमं तुलिमं मेयं क्रियया रूपतः श्रिया ॥
१ क अर्घार्थम् ।
For Private And Personal Use Only