________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्तेयदण्ड्ः ।
गणिमं पूगादि । कपर्दकादौति हलायुधः । तुलिमं सुवर्णादि । मेयं धान्यादि । क्रियया वाहदोहादिक्रिययोपलक्षितमश्वमहिष्यादि । रूपतः क्रौयमाणं पण्याङ्गनादि । चित्रं वस्त्रादीति हलायुधः । श्रिया दौत्या मुक्तादि ।
१
Acharya Shri Kailassagarsuri Gyanmandir
आगमो देशान्तरौयस्य विक्रय्यवस्तुनो दूरादूर सुगमदुर्गमदेशवर्त्तिनः स्वदेशप्रवेशः । निर्गमः स्वदेशौयपण्यस्य तादृशपरदेशगमनम् । स्थानं चिरमचिरं वा कालमेतस्मिन कौते इयान् भक्ष्यादि व्ययो वृत्त इत्यवस्थानम् ।
वृद्धिरिदानमेतस्मिन् विक्रयमाणे एतावान् लाभो भवति क्षयो वा सतावतो हानिरिति सव्र्व्वमिदं परामृष्य यथा क्रेतुर्विक्रेतुर्वा अनुचिते लाभहानी न भवतस्तथा राजा क्रयविक्रयौ कारयेदित्यर्थः ।
च विक्रेतुरुचितं लाभमाह याज्ञवल्क्यः,
स्वदेशपण्ये तु शतं बणिक् गृह्णौत पञ्चकम् । दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयौ ॥
१९ ख ग घ पुस्तकत्रये पण्यमङ्गनादि । ३ घ पुस्तके [
यः स्वदेशोद्भवमेव पण्यं तस्मिन्नेव दिने क्रीत्वा ग्रामान्तरादानौयानयनदिन एव विक्रीणीते [ स पणशतमुल्ये पणपञ्चकम् । विदेशपण्यं क्रौत्वा तस्मिन्नेव दिने विक्रीणौते] स पणशतमूल्ये पणदशकं गृह्णीयात् न ततोऽधिकं दण्डापादकत्वात् । सद्य इत्यभिधानात् विलम्ब्य विक्रये नायं नियम इत्यर्थः ।
] चिन्हितांशः पतितः ।
££
२ क भक्तादिव्ययः ।
For Private And Personal Use Only