________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्तेयदण्डः ।
कूटतया ज्ञातैः परकृतैरपि व्यवहरति तावुत्तमसाहसं
दण्ड्यावित्यर्थः ।
पूर्व्वं कूटव्यवहारे यदुक्तं तस्यैवायं पक्षप्राप्तानुवादः ।
Acharya Shri Kailassagarsuri Gyanmandir
अत्र मनुः,
तुलामानं प्रतौमानं सर्व्वं तत् स्यात् सुरक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परौक्षयेत् ॥ तुलादीनां कूटत्वशङ्कया षट्सु षट्सु मासेष्ठतौतेषु परीक्षणं कार्य्यमित्यर्थः ।
तच्चालुब्धसाधुपुरुषद्वारकमित्याहतुः -- शङ्खलिखितौ,तुला मानप्रतौमानव्यवहारार्घस्थापनं देशद्रव्यानुरूपं प्रत्ययितपुरुषाधिष्ठितम् ।
याज्ञवल्क्यः,
अकूटे कूटकं ब्रूते कुटे यश्चाप्यकूटकम् । स नाणकपरीक्षौ तु दाप्य उत्तमसाहसम् ॥ इदमाशयापराधे तद्यतिरेके तूत्तमादल्यमर्हतौत्याहुरिति रत्नाकरः ।
13
बजे
यद्यप्याशयापराधाभावे' दण्डाभाव एव उचित - स्तथापि परौक्षणासमर्थस्य तच प्रवृत्तिरेव दोष इत्यभिसन्धाय दण्डाभिधानमिति प्रतिभाति ।
याज्ञवल्क्यः,
सम्भूय कुर्वतां सर्व्वं सावाधं कारुशिल्पिनाम् । अर्धस्य हानिं च साहस्रो दण्ड उच्यते ॥
१ ग का शेषापराधाभावे |
२ मूले अर्धमिति पाठः ।
For Private And Personal Use Only