________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
स्वयं शुक्लस्थानप्रविष्टस्य जङ्गमस्य स्थावरस्य च विक्रेतुः कियद्देयमित्यत्र । विष्णुः,
'स्वदेशपण्याच्छुल्कांशं दशममादद्यात् । परदेशपण्याच्च विंशतितमम्। __ स्वदेशपण्ये बणिजामुत्पन्नलाभ दशमांशं राजा गृहौयात् परदेशपण्य उत्पन्नलाभे विंशतितममित्यर्थः ।
अचाशुनाशिनि द्रव्यविशेषे विशेषमाह गौतमः,राज्ञ इत्यनुवृत्ती,
मूलपुष्पौषधमधुमांसतणेन्धनानां षष्टिः क्षणधर्मित्वात्तेषु नित्ययुक्तः स्यात् ।
षष्टिः षष्टितमभागं, तेषु मूलादिषु, क्षणधर्मित्वात् क्षणविनाशधर्मित्वात्, नित्ययुक्तो नित्यावहितो यतः स्यादित्यर्थः इति हलायुधः। एवमेव रत्नाकरः। कामधेनौ तु तद्दणधर्मत्वादिति स्पष्टमेव पठितम् । मिश्रस्तु षष्ठ इति पठित्वा षष्ठांशो राजग्राह्य इति व्याख्यातम् ।
सामुद्रिकेषु पण्येषु सारोवारपूर्वकं शूल्कग्रहणमित्याह बौधायनः,
सामुद्रः शुल्को वरं रूपमुद्धृत्य दशपलं शतमन्येषामपि सारानुरूप्येणानुपहत्य ध प्रकल्पयेत् ।
सामुद्रः समुद्रादागतपण्यगोचरः, तत्र पण्येषु वरं मुक्ताफलादिकं गृहीत्वा शतपणमूल्ये दशपणं गलौयादन्येषामपि लाभभूयस्त्वप्रयोजक-देशान्तरागतानां सारानुसारेण श्रेष्ठं
१ क ख स्वदेशपण्यानां शुल्कादशं ।
For Private And Personal Use Only