________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेथदण्डः ।
६५
वस्तु गृहीत्वा धर्मादनपेतं शुल्कं कल्पयेदित्यर्थः। अनुपहत्येत्यनेन बणिजो द्रव्योपघातो न कार्य इत्युक्तम् । इलायुधेनापहत्येति पठित्वा उद्धृत्येति व्याख्यातम् ॥ अथ शुल्कापवादमाह । वसिष्ठः,
शुल्क चापि मानवं श्लोकमुदाहरन्ति । न भिन्नकार्षापणमस्ति शुल्क न शिल्पिवित्ते न शिशौ न दूते । न भैश्यसन्धे न कृतावशेषे
न श्रोत्रिये प्रव्रजिते न यज्ञे ॥ भिन्नो न्यूनः कार्षापणो मूल्यं यस्य तद्भिन्नकार्षापणं तनिमित्तः शुल्कोऽपि भिन्नकार्षापणः। तेन कार्षापणादळक यस्य मूल्यं तच वस्तुनि शुल्को न ग्राह्य इत्यर्थः । भिन्नशब्दो मूल्यपरस्तेन कार्षापणमूल्यमिति हलायुधः ।
वस्तुतस्तु,
यथोक्तं शुल्कं यदि भिन्नकार्षापणं भवति तदा न ग्राह्यमिति ऋजुरेवार्थः, प्रथमानिर्देशस्य स्वरसात् यथाव्याख्यातार्थपक्षे विक्रयपरतायामन्यत्र सप्तमौदर्शनादिति प्रतिभाति ।
न शिल्पिवित्ते शिल्पिना शिल्यात् प्राप्ते वित्ते, शिशौ विक्रय्यगवादिवत्सादौ । दूते दूतवस्तुनि उपहारार्थं तेन नौयमाने पूज्यतया लब्धे वा, कतावशेषे सुखितस्य बणिजः शेषे वस्तुनि, यज्ञे यज्ञार्थमानौयमाने द्रव्ये ।
१ शिल्पकृत्तौ इति बह्वादाभिमतः पाठः ।
For Private And Personal Use Only