________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
६३
निर्हारे विक्रये। अत्र नाशितभाण्डमूल्यो यदि बणिक तदैवमित्यविरोधः।
एवञ्च राजयोग्यमपि विक्रौय यदि मूल्यदानाशक्तः स्यात्तदाऽयमेव दण्डो न्यायसाम्यादिति रत्नाकरः।
अथ कूटव्यवहारिणो जङ्गमस्य बणिजो दण्डमाहतुमनुनारदौ,
शुल्कस्थानं परिहरनकाले क्रयविक्रयौ । मिथ्यावादौ च संख्याने दाप्योऽष्टगुणमत्ययम् ॥ शुल्क क्रयविक्रयादौ राजग्राह्यं तस्य स्थानं राजव्यवस्थापितं नदीनगरपर्वताद्यधिकरणं यदि तदुत्पथगमनेन परिहरन् बणिगकाले निशादौ क्रय विक्रयं वा। संख्याने परिमाणे वस्तुनो मिथ्यावादी भवति, शुल्कखण्डनार्थमल्यसंख्या वक्तौति यावत्तदा क्रौतविक्रौतमूल्यादष्टगुणमित्ययं दण्डो दाप्य इति रत्नाकरः। शुल्कस्योपस्थितत्वात्तदपेक्षयैवाष्टगुणत्वमिति प्रतिभाति व्याख्यातञ्च सर्वज्ञेन। अत्ययं राज्ञो यदचितं शुल्कमिति । विष्णुः,
शुल्कस्थानमनाक्रामन् सापहारमाप्नुयात् । अनाकामनप्रविशन् परिहरन्निति यावत् । सर्वस्वापहारं सर्वस्वापहरणं एतच वारंवारं शुल्कस्थानपरौहारविषयमतो न विरोधः ।
१ क ख इत्याविरोधः।
For Private And Personal Use Only