________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
एवञ्चात्र कात्यायनीयं पूर्वसाहसाभिधानं साहसेषु च शवलिखितादौनां न्यूनाधिकसंख्याकथनमपहृतद्रव्यस्याष्टमांशापेक्षया न्यूनाधिकभावमादाय समञ्जसमिति द्रष्टव्यम्।
यत्तु,कूटतुलामानप्रतिमानव्यवहारे शारीरोऽङ्गछेदो वा। इति शङ्खलिखितवचनम्।
तत्र शारीरो मुण्डनरूपः, अङ्गछेदः कर्णाद्यन्यतमछेदः। अत्र कल्पे गौरवागौरवाभ्यां विवल्पव्यवस्थितिरिति रत्नाकरः।
इह च,__ तुलामानविशेषेण लेख्येन गणितेन च ।
इति व्यासोक्तयोर्लेख्यगणितयोरपि 'दोषेऽनुक्तोऽपि दिशतादिरेव दण्डस्तुल्ययोगक्षेमत्वात् ।
एतद्दचनं पठित्वा रत्नाकरादौ याज्ञवल्क्यवचनावतारणाच्च । तथा,
समैश्च विषमं यत्र चरेद्दा मूल्यतोऽपि वा । 'स प्राप्नुयाहमं पूर्वं नरो मध्यममेव वा ॥ इति मनुवचने द्वयोः सकाशात् समं मूल्यं तयोरेकस्योत्कृष्टमन्यस्यापकृष्टं पण्यं वैषम्येण ददानः पूर्वसाहसं दाप्यः। समे द्रव्ये क्रेतव्ये क्वचिदधिकं मूल्यं वैषम्येण गृह्णन् मध्यमसाहसं दाप्य इत्यर्थः। इति रत्नाकरः।
१ ग अल्पदोषः।
२ क ग पुस्तकदथे संप्राप्नयात् ।
For Private And Personal Use Only