________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः।
विनिमयप्रवृत्तयोः क्रयप्रहत्तयोर्वा हयोरेकतरस्यार्थित्वं ज्ञात्वाऽल्पमूल्येन बहुमूल्यं परिवर्तयन्नल्पमूल्ये विक्रेये बहुमूल्यं गृह्णन् पूर्वसाहसं मध्यमसाहसं वा धनापेक्षया दाप्य इत्यर्थः। इति हलायुधः।
अब पूर्वव्याख्याने पूर्वमध्यमसाहसयोर्या विषमव्यवस्था श्रूयते। साऽपहृतद्रव्य-न्यूनाधिकभावमादाय समर्थनीया अन्यथा अदृष्टार्थत्वापातात् ।
अनुबन्धविशेषापेक्षया प्रथममध्यमसाहसविकल्प इति मनुटौकायां कुल्लूकभट्टः। नारायणस्तु,
समैस्तु ऋजुशौलैर्विषमं चरेत् वक्र व्यवहरेत् । मूल्यतो विषमं चरेदधिकं गृह्णीयात् । तेन पूर्वत्र पूर्व साहसमुत्तरच मध्यममित्याह। मनुः,
अबोजविक्रयौ यस्तु बौजोकोष्टा तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्दधम् ॥ अबीजं बौजतया यो विक्रौणौते सोऽबोजविक्रयौ क्षेत्रादावुप्तं बीजमन्यत्र नयति स बीजोत्क्रोष्टा' इति हलायुधः। उप्तबीजमुत्खननेन यो हरति तथेति रत्नाकरः।
अबौजमेव कतिचिदत्कृष्टक्षेत्रक्षेपणेन पूर्वमिदं सोत्कष्टमिति कृत्वा यो विक्रौणोते स तथेति कुल्लकभट्ठः । बौजकाले तस्य महार्घतार्थमुत्कर्षकारौति नारायणः ।
१ घ पुस्तके बीजोत्क्रुष्ठा।
For Private And Personal Use Only