________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
अथ प्रकाशतस्करेषु बणिक विविधः। एकः क्रयविक्रयोपजीवी आपणिकादिः। अपरो द्रव्यनिर्माणोपजीवी सुवर्णकार-चर्मकारादिः। तत्र विक्रेता विविधः कूटव्यवहारौ कूटकारौ च । तयोः कूटव्यवहारी दिविधः स्थावरो जङ्गम इति सम्भूय चत्वारो बणिक्स्वरूपाः। तेषु कूटव्यवहारिणः स्थावरस्य बणिजो दण्डमाह । याज्ञवल्क्या,मानेन तुलया वापि यो हरेदंशमष्टमम् । दण्डं प्रदाप्यो दिशतं वृद्धौ हानौ च कल्पितम् ॥ मानं प्रस्थद्रोणादि, तुला सुवर्णादितुलनदण्डः । एतच्च प्रतिमानस्याप्युपलक्षणम् ।
तुलामानप्रतिमानैः प्रतिरूपकलक्षितैः । चरन्नलक्षितैर्वापि प्राप्नुयात् पूर्वसाहसम् ॥
इति कात्यायनवचनात् । __तच्च सुवर्णादिमाननिश्चयार्थ राजचिह्नाङ्कितं शिलाशकलादि प्रतिमानेति प्रसिद्धम्। सर्वत्र चाच कूटत्वं विवक्षितं प्रतिरूपकलक्षितैरिति कात्यायनसंवादात् । __ अष्टमांशः परिमातस्य द्रव्यस्य । द्विशतं पणानां हवावित्याद्यपहतद्रव्यस्याष्टमांशापेक्षया यदि वृद्धिदृश्यते यदि वा हानिर्दृश्यते तदा कल्पितं दण्डमपहर्ता दाप्यः । कल्पना च दिशतानुसारेणैव तेनाष्टमादंशादधिकापहारे दिशतादधिको दण्डो न्यूनापहारे न्यून इत्यर्थः ।
१ क ग बणिविकल्पाः ।
12
For Private And Personal Use Only