________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
मिताक्षरा। देशपतिरिति प्रसिद्धो देशपाल इति रत्नाकरः। यत्र ग्रामे विशिष्टरक्षानियुक्तो नास्ति तद्दिषयमिदम् ।
यत्र चौरग्राहो दिक्पाला वा नास्ति । तत्र याज्ञवल्क्यः,
स्वसौम्नि दद्यात् ग्रामस्तु पदं वा यत्र गच्छति ।
पञ्चग्रामौ बहिः कोशाद्दशग्राम्यथवा पुनः ॥ अथवेति वाकारोऽनास्थायां अत्र ग्रामाध्यक्षे सति स एव दद्यात्।
ग्रामान्तेषु हृतं द्रव्यं ग्रामाध्यक्षं प्रदापयेत् । इति कात्यायनसम्बादात्।
तदभावे तु ग्रामो दद्यात् । ग्रामपदञ्चार ग्रामवासिलोकपरं ग्रामः पलायते इतिवत्। एतच्च यदि सौम्नो बहिश्चौरस्य पदं निर्गच्छति तदा बोद्धव्यम् । निर्गते तु तस्मिन् यत्र तत्प्रविष्टं स एव ग्रामस्तदध्यक्षो वा दद्यात्।
अनेकग्राममध्ये क्रोशाहिःप्रदेशे मोषे जाते जनसम्मादिना चौरपदे भग्ने समाहृताः पार्श्वग्रामाः पञ्च वा दश वा न्यूनाधिका वा यथाप्रत्यासन्ना अपहृतद्रव्यं दारित्यर्थः।
एतच्चाज्ञानकर्तृके मनुष्यमारणेऽपि द्रष्टव्यं घातितेऽपहृते दोष इत्युपक्रम्य याज्ञवल्क्येनाभिधानात् ।
१ ग ७ पुस्तकदये यथाप्रत्यासत्यपहृतव्यम् ।
For Private And Personal Use Only