________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
h
अत्र कात्यायनःचौरैहृतं प्रयत्नेन स्वरूपं प्रतिपादयेत् ।
तदभावे तु मूल्यं स्यादन्यथा किल्विषो नृपः ॥ स्वरूपं यदपहृतं द्रव्यं सैव व्यक्तिः । तथा,
लब्धे च चौरे यदि च मोषस्तस्मान्न लभ्यते। दद्यात्तमथवा चौरं दापयेत्तु यथेष्टतः ॥ मोषो मुषितद्रव्यं स यत्र चौरसकाशन्न लभ्यते तत्र 'मूल्यं वा राजा स्वयं स्वामिने दद्यात् चौरमेव वा तस्मिन् विसृजेत् । इच्छया तु तथा कुर्याद्यथा चौरस्तमस्मै ददातीत्यर्थः।
अथ यत्र चौरोऽपि न लभ्यते तत्रापस्तम्बः,ग्रामेषु नगरेधार्यान् शुचौन सत्यशौलान् प्रजागुप्तये निदध्यात् तेषां पुरुषास्तथागुणा एव स्युः सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यं क्रोशो ग्रामेभ्यः अत्र यन्मध्येत तैस्तु प्रतिपाद्यम्।
ग्रामनगरयोस्तत्पर्यन्तभूमौ च क्रोशरूपायां योजनरूपायां वा यन्मुषितं तत्तद्रक्षका एव दापयितव्या इत्यर्थः । कात्यायन,गृहेषु मुषितं राजा चौरग्राहांस्तु दापयेत् ।
आरक्षकांस्तु दिक्पालान् यदि चौरो न लभ्यते ॥ चौरग्राहो विशिष्टसार्वत्रिकचौरान्वेषणकर्मणि नियुक्तः। दिक्पाला दिक्ष नियुक्तः स च स्थानपाल इति
१ ग मूल्यद्वारा।
२ घ कोषो।
For Private And Personal Use Only