________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः।
५
निश्चितचौर्यादन्यतो हृतद्रव्ये लब्ध पूर्व गृहीतं द्विगुणं कृत्वा चौरग्राहकसकाशादचौराय दद्यादित्यर्थः । अथ वृहस्पतिः,प्रभुणा विनियुक्तः सन् मृतको विदधाति यः ।
तदर्थमशुभं कर्म खामौ तवापरानयात् ॥ तदर्थं स्वाम्य), अशुभं कर्म चौर्यादि, स्वामौति स्वामिन एव तत्र दोषो न मृत्यस्येत्यर्थः।।
अपरावयादिति दण्डभाग्भवेदिति कल्पतरुः। एतच्च दण्डपारुष्यादिषप्यनुसन्धेयम् । इह दण्डाभावमात्रे तात्पर्य्यम्, पापन्तु भृत्यस्यापि भवत्येवेति मनुष्यमारणपरिच्छेदपरिसमाप्तौ प्रपच्चितम् । भृतकभेदानाह बृहस्पतिरेव,
आयुधौ चोत्तम स्तेषां मध्यमः सौरवाहकः । भारवाहोऽधमः प्रोक्तस्तथैव गृहकर्मकृत् ॥ अथ याज्ञवल्क्यः,देयं चौरहृतं द्रव्यं राज्ञा जानपदाय च ।
अददत् स समाप्नोति किल्विषं तस्य यस्य तत् ॥ जानपदाय स्वदेशवासिने, तस्य यस्य तदिति यदि चौरहस्तादादाय राजा स्वयमुपभुत तदा तस्य चौरस्य तद्रव्यमपहारेण सम्बन्धि जातं तस्य किल्विषमाप्नोतौति मिताक्षराकारः।
१ ग पुस्तके प्रथमस्तेषां । २ क ग पुस्तकहये अददच्च।
For Private And Personal Use Only