________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तेयदण्डः ।
न चेदमुचितं सन्धिच्छेत्तुस्तद्भक्तदातुश्च तुल्यो दण्ड इति। तस्मादिदमपि दण्डगौरवमनुबन्धगौरवादिति नेयम् । अथ नारदः,भक्तावकाशदातारः स्तेनानां ये प्रसर्पताम् ।
शताश्च ये उपेक्षन्ते तेऽपि तद्दोषभागिनः ॥ चौरस्यावग्रहं कत्तुं ये समस्त्यजन्ति तेऽपि चौरा इत्यर्थः । मनुः,
राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव देशितान् ।
अभ्याघातेषु मध्यस्थान् शिष्याचौरानिवेश्वरः ॥ सामन्तान् ग्रामवासिनः समन्तात् समौपस्थितान्। देशितान रक्षार्थमादिष्टान् । अभ्याघातेषु चौरैः क्रियमाणेषु घातेषु मध्यस्थान् उपेक्षकान् । कात्यायनः,
आह्वायका देशकरास्तथा चान्तरदायकाः । समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ आह्वायकेत्यादौ चौराणामिति शेषः। 'आह्वायकाः प्रेरकाः। अन्तरमवकाशस्थानमिति यावत् ।
सर्वश्चायमतिदेशो मनुष्यमारणेऽपि द्रष्टव्यः। चौरस्य हन्तु र्वेति याज्ञवल्क्यादिभिरुभयोपादानात् । अथ कात्यायनश्चौराणामित्यनुवृत्तौ,केतारश्चैव भाण्डानां प्रतिग्राहिण एव च ।
समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान् ॥ भाण्डानां चोरितद्रव्याणाम् ।
१ क पुस्तके अभ्यागतेषु ।
For Private And Personal Use Only