________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
मनुः,
अग्निदान भक्तदांश्चैव तथा शस्त्रावकाशदान् । सन्निधातंश्च मोषस्य हन्याचौरानिवेश्वरः॥ अग्निदान गृहदाहाद्यर्थमिति नारायणः। सन्निधातन् मोषणीयद्रव्यानुकूलसन्निधानकारकानिति रत्नाकरः। मुष्यत इति मोषश्चौरधनं तस्यावस्थापकानिति मनुटौकायां कुल्लकभट्टः।
नारायणस्तु गृहदाहादिकमयं करिष्यतीति ज्ञात्वाऽपि सन्निधातृन् वा तत्तत्स्थानसमौपनेतन् मोषस्य चौरस्य वेत्याह । एतच्च भयाज्ञानविरहे नेयमिति रत्नाकरः । अत्र विष्णुः—हन्यादित्यनुवृत्ती,प्रसह्य तस्कराणामवकाशभक्तदांश्चान्यत्र राजशक्तः।
यदि राजा चौरनिराकरणप्रभविष्णुस्तदा स्वरक्षणाय चौरभक्तादिदानेऽपि न दोष इत्यर्थः । __ हलायुधेन तु आसक्तरिति पठित्वा अन्यत्र राजासक्तेविना राजसम्बन्धात् , तेन यो राजाज्ञयैव चौराणां विश्वासार्थं भक्तादिदानं करोति नासौ बध्य इति व्याख्यातम् ।
इह स्तेन-भक्तदाबादौनां वास्तवं स्तेयं नास्ति। 'तदनुकूलितया तदतिदेशमाश्रित्य तदुक्तदण्डोपदेशः काममस्तु किन्तु दोषतारतम्याद्दण्डतारतम्यमनुरोध्यम्। मनुष्यमारणप्रकरणपरिसमाप्तिनिरुक्तन्यायात् व्यवहारशास्त्रसिद्धान्तात् ।
१ ग तदनुकूलिततया।
For Private And Personal Use Only