________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यमारणदण्डः ।
'गृहमानस्तु दौःशौल्यात् यदि पापः स जीवति ।
सभ्याश्चास्य प्रदुष्यन्ति तोवो दण्डश्च पात्यते ॥ अत्र प्रत्यासत्तिं विनयकर्तृसान्निध्यं यः कुर्यात्। यो मयेदं साहसं कृतमिति ब्रूयात् स साहसमगृहमानः । तस्यानधिको दण्डः । गहमानस्य त्वधिक इति श्लोकार्थ इति रत्नाकरः। . __ हलायुधस्तु—साहसकार्यमन्यायसाहसं कृत्वा प्रत्यासत्तिं प्रायश्चित्तं यदि भजते स्वयमेव सदसि साहसकर्त्तत्वं निवेद्य दण्डो मे क्रियतामिति वा वदेत् तस्य यथोक्तदण्डादईदण्डः। यस्तु दौःशौल्यं गृहमानस्तस्मादेव जीवति तस्य चेगितादिभिः सभ्याः साहसकारित्वं निश्चित्य तस्य स्वल्पेऽपि साहसे तीव्रो दण्ड इत्यर्थ इत्याह। दयमपि चैतदर्थगत्या युक्तमेव ।
अत्र यः साहसं कारयतीत्यादिवचनानां रत्नाकरे पञ्चविधं साहसमुपक्रम्यावतारणाद् याज्ञवल्क्य-नारदवचनयोः साहसस्यैव श्रवणात् कात्यायनवचने तदश्रुतावपि रत्नाकरता तदुभयमध्यपाठस्वरसात् स्तेयादिधप्येष दण्डो दण्डविशेषश्च द्रष्टव्यः ॥
इति श्रीवर्द्धमानकृतौ दण्डविवेके मनुष्यमारणदण्डपरिच्छेदो
द्वितीयः ॥
१ क ख ग पुस्तकेषु ग्टह्यमाणस्तु ।
For Private And Personal Use Only