________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
दण्डविवेकः।
भावात् । परप्रयुक्त्या प्रवर्त्तमानस्य तत्त्वादिस्थानीयत्वात् । स्वामिप्रयुक्त-हय-हस्ति-कुक्कुर-वानरादिवत् प्रवृत्तेः पराधीनत्वात् ।
एवञ्च यथा तत्र स्वामिन एव दण्डः । पुत्रापराधेन पितेत्यादि दण्डपारुष्य-दण्डमातृकालिखितनारदवचनस्वरसात् । एवमिहापि प्रयोजक एव दण्ड्यो न तु प्रयोज्योऽपि न्यायसाम्यात् । दर्शितञ्चैव तदर्थं वृहस्पतिवचनं स्तेयदण्डमाकायाम्।
इत्यमपराधानुसारेण दण्डव्यवस्थितौ ज्ञात्वा तु घातकमित्यादिव्यासवाक्ये रत्नाकरौयं बान्धवव्याख्यानं चिन्त्यम् ।
न हि साहसिकापरित्यागमात्र प्ररूढो दोषो येन तत्र बधः स्यात्। साहसानभिसन्धायिनोऽपि स्नेहादिनाऽपि तत्सम्भवात् । तस्माद् ये बान्धवाः साहसिनं न निवारयन्ति प्रत्युत साहसफलार्थितया स्वयमपराधयन्तः परं प्रेरयन्ति तेषां तत्तुल्ययोगक्षेमत्वादयं दण्डविधिः ।
अन्यथा धातकाश्चोपघातकाः स्वशरीरेण दण्ड्याः स्युरिति यमवचने स्वशरीरेण दण्डोऽप्यवापराधानुरूपो विवक्षित इति रत्नाकरोयमेव व्याख्यानं विरुध्यते ।
अथ नारदः
अयुक्तं साहसं कृत्वा प्रत्यासत्तिं भजेत यः। ब्रूयात् स्वयं वा सदसि तस्याईविनयः स्मृतः ॥
For Private And Personal Use Only