________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुष्यमारणदण्डः ।
७१
तबानुग्राहकादौनां प्रत्यासत्तिव्यवधानापेक्षया व्यापारगतगुरुलाघवापेक्षया च फलगुरुलाघवात् प्रायश्चित्तगुरुलाघवं तत्रैव व्यवस्थितम् । यथा अनुग्राहकस्य पादोनं प्रयोक्तुरईम् । अनुमन्तुः साईपादः। निमित्तिनान्तु पाद इति।
एवं व्यवस्थिते प्रायश्चित्ते यत्र विशेषवचनं नास्ति तत्र दण्डोऽप्येवमेव द्रष्टव्यः । इयोस्तुल्ययोगक्षेमत्वात् । उभयत्र व्यवधानाऽव्यवधानयोरनुरोध्यत्वात् । पैठौनसिवाक्ये इयोस्तुल्यवत् कल्पनीयत्वोपदेशाच्च ।
निमित्तिनस्तु आक्रोशनादिदण्ड एव न तु हिंसादण्डोऽपि तत्र तस्याभिसन्धानाभावात्। अतएवाततायिनि प्रमादमृते दण्डाभावमाह मिताक्षराकारः।
यत्र तु विधिप्राप्तमाक्रोशनादि तब तहण्डोऽपि नास्ति । उक्तञ्च भवदेवभट्टेन। यदा विहितवाग्दण्ड-धनदण्डशारीरादिदण्डेवपराधानुरूपेषु गलपाशादिना म्रियते तदाऽपि न दोषः। मन्यूत्पादनेऽपि दण्डानां विहितत्वेन निषेधानवकाशात् । यतो न हिंस्यादित्यनेन साक्षात्परप्राणवियोगफलव्यापारकर्तृत्वं निषिध्यते।
न च निमित्तिनो वाग्दण्डनिमित्तातिरिक्तव्यापारे कर्तत्वमस्ति तदेव हि मन्यत्पादनहारेण परम्परया बधकारणमतः कथं तस्य निषेधविषयत्वमपौति।
एवञ्च प्रयोज्यस्यापि विध्यतिक्रमनिबन्धनं पापमात्र न तु दण्डोऽपि । स्थपतेः स्वर्ग इव हिंसायां तस्य स्वरसा
For Private And Personal Use Only