SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ Acharya Shri Kailassagarsuri Gyanmandir दण्डविवेकः । उपेक्षाकारौ निषेधे साक्षादक्षमोऽपि परद्वाराऽपि निषे धानुकूल्याकारौ । श्रयुक्तो दोषवक्तेति राजा अनियुक्तोऽपि घातनौयदोषवक्ता — इत्यर्थः । अयुक्तो घातकासम्बन्ध इत्यन्ये । हलायुधेन तु युक्तस्येति पठित्वा युक्तस्यान्याय्यस्य सामर्थ्ये सत्युपेक्षाकारौति व्याख्यातम् । तथा पैठीनसिः, हन्ता मन्त्रोपदेष्टा च तथा संप्रतिपादकः । प्रोत्साहकः सहायश्च तथा मार्गानुदेशकः ॥ उपेक्षकः शक्तिमांश्च दोषवक्ताऽनुमोदकः । कार्यकारिणामेषां प्रायश्चित्तन्तु कल्पयेत् । यथाशक्त्यनुरूपञ्च दण्डञ्चैषां प्रकल्पयेत् ॥ एवमन्येऽप्यवकाशदानादिना घातकोपकारिणः स्तेयप्रकरणौया इहोदाहरणौयाः । व्यासः, ज्ञात्वा तु घातकं सम्यक् ससहायं सबान्धवम् । हन्याचिचैर्बंधोपायैरुद्वेगजनकैर्नृपः ॥ सहायोऽचात्यन्तसन्निहितो विवक्षितः । बान्धवाश्च ये साहसकर्त्तारं ज्ञात्वाऽपि न तं परित्यजन्ति त स्वाचोक्ता इति रत्नाकरः । अत्र साक्षात्प्रयुक्त्यनुग्रहानुमतिनिमित्तभेदात् पञ्चविधो बधः स चास्माभिर्द्वैतविवेके भेदप्रभेदाभ्यां विस्तरेण प्रपञ्चितः । १ ग पुस्तके निषेधाननुकूलकारी । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy