________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
अथ स्तेयदण्डः। तत्र स्तेयं नाम अनैयायिक परस्वग्रहणमिति स्थितिः। तत्र विशेषमाह मनुः,
स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत् स्तेयं कृत्वाऽपव्ययते च यत् ॥ अन्वयवत् रक्षिपुरुषसमक्षम्। अपव्ययते अपहते । तेन प्रसभं बलात्कारेण रक्षकमभिभूय यापहारस्तत्र साहसमेव न तु स्तेयम् ।
अगोपनाद् यत्र च्छलेन रक्षिसमक्षकृतोऽप्यपहारो गोप्यते, तदेकं स्तेयं ग्रहणस्यापह्नवात्। यत्र तु रक्षिणोऽन्वय एव नास्ति किन्तु ततोऽपहा-पहारस्तदपरं स्तेयम् । उभयत्र स्तेयमुक्तमपहूव इति कात्यायनसंवादात् ।
तेन प्रथमाऽपहर्ता वस्तुतस्तस्करोऽपि साहसोक्तदण्डप्राप्त्यर्थं साक्षिविशेषदिव्यविशेषपरिग्रहार्थं च साहसिक इत्युच्यते। द्वितीयः प्रकाशतस्करो रक्षिणः प्रकाश्यैवापहारात्। तृतीयोऽप्रकाशतस्करः सुप्त-मत्त-प्रमत्तार्तानामप्रकाशमपेक्ष्यापहारात् । सर्वत्र चाचापहतः सकाशादपहृतं द्रव्यं स्वामिनो दापयित्वा तं तमपराधं लाके कथयित्वा दण्डः कार्य्यः। तथाच वृहस्पतिः,संसर्गलाप्तचिह्नश्च विज्ञाता राजपूरुषैः । प्रदाण्यापहृतं शास्या दमः शास्त्रप्रदेशितैः ॥
For Private And Personal Use Only