________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
go
दाना ! व्यभिचारं सेवते. वाथ तत्रैकेन द्विजेन जवनेश्वरी देवी समाराधिता, तया संतुष्टया तस्मै जरामरफलं दत्तं दिजेन फलमादाय गृहं समागत्य चिंतितं मया याचकेनाजरामरीनृतेन किं ? यदि र्तृहरिराजाऽजरामरत्वं प्राप्नुयात्तदा वरं इति विचार्य तेन राज्ञस्तत्फलं प्राभृतीकृतं फलमाहात्म्यं च कथितं. संतुष्टेन राज्ञा तस्मै बहुधनं दत्तं ध्यथ राज्ञा विचारितमिदं फलं प्राणप्रियराश्यै देयं, इति विचार्य स्वशेन तेन तस्यै तत्फलं दत्तं राज्ञ्या च स्वप्राणप्रियाय मेंठाय तत्फलं दत्तं, तेनापि चिंतितं मम वेश्या सद प्रीतिरस्ति ततो मया तस्यै एवेदं देयं, इति विचार्य तेन कामलताभिधवेश्यायै तद्दत्तं तयापि चिंतितमने कपातकखनिनुतया मयाऽजरामरीनृतया सृतं बहुलो कोपकारकारकभर्तृहरिनृपयोग्य मे वैतत्फलं ततस्तस्मै एव देयं इति विचार्य तथा तत्फलं राज्ञे प्राभृती - कृतं. राज्ञा तत्फलमुपलच्य वेश्याये पृष्टं केन तवेदं फलमर्पितं ? तयोक्तं भवतः पट्टहस्तिपकेन ममदत्तं हस्तिपकमाहृय बहुपहारांश्च दत्वा यदा पृष्टं तदा तेन मानितं यन्ममानंगसेनया राज्या दत्तमस्ति तत् श्रुत्वा सावर्यः खितो राजांतःपुरे गतः कथितं च तेन राज्ञ्यै यदमरफलं समानय ? राइया प्रोक्तं मयैतत्फलं नक्षितं, ततोऽत्यंतं क्रुद्धेन राज्ञा तस्या कशाप्रहारा दत्तास्तदा तया सत्यं क
For Private and Personal Use Only