________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- पार्श्वे ईक्षयष्टिमार्गिता, तेन तदाणमेवेक्षुभृतशकटं प्रेषितं, देवदत्तयाऽकायै प्रोक्तं किमहं हस्तिन्य.
स्मि? यत्तेनेकुशकटं प्रेषितं. ततो देवदत्तया दासी प्रेष्य मूलदेवपार्श्वे ईयष्टिर्मार्गिला. तेन चोत्त मेक्षुयष्टिमादाय निस्त्वचं च विधाय शकलीकृत्य कर्पूरादिना च संस्कृत्य मनोहरभाजने संस्थाप्य कोमलवस्त्रेण चागद्य तदीकुचाजनं दास्या हस्तेन प्रेषितं. तदा देवदत्तया प्रोक्तं हे मातः पश्य गुण्यगुणिनोरंतरं. बक्का चमत्कृतापि लोभार्थिनी चिंतयति यद्ययं मूलदेवोऽत्र नायाति नदा वरमिति विचिंत्य तयाऽचलाय झापितं यदि मूलदेवोऽपमानं प्राप्नुयात्तदा स तो गछेत. अथाचलो ग्रा. मांतरगमनमिषेण प्रबन्नं स्थितः. संध्यायां मूलदेवोऽचलं ग्रामांतरगतं झात्वा देवदत्तागृहे समागतः, अकया संकेतितोऽचलोऽपि शीघं तत्रागतः, देवदत्तया मूलदेवो मंचकाधो गुप्तीकृतः, अकायाः कथनतो मूलदेवं मंचकाधःस्थितं ज्ञात्वाऽचलेन देवदत्तायै प्रोक्तमद्य मम मंचकोपर्येव स्नानं कर्तुमिबास्तीत्युक्त्वा स पानीयमादाय यावन्मंचकोपरि स्नानं कतु लमस्तावन्मूलदेवो कुब्धः, अचलेन शी. घं मूलदेवं केशेष्वाकृष्य प्रोक्तमधुना तव किं करोमि ? मूलदेवेनोक्तं यत्तत्यं रोचते तत्कुरु? अचलेन चिंतितमस्य रूपचातुर्यादिनियिते यदयं कोऽप्युत्तमपुरुषोऽस्ति, इति विचार्य तेनोक्तमधुना
For Private and Personal Use Only