________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वात्त
दाना- बोध्य स्वशिष्यान कृत्वोऊायिनी समागत्य तां प्रतिमा प्रतिष्ठापितवान्. ॥ इति कपिलसंबंधः ॥
अथ चंप्रद्योतेन सा प्रतिमा सुवर्णगुटिकायै समर्पिता, सापि तां प्रतिमां जिनालये स्थापयित्वा जीर्णा च गृहीत्वाऽनिलवेगगजोपरिस्था चंम्प्रद्योतसहितोमागिनी प्राप्ता. प्रजाते देवाधिदे. वप्रतिमां वंदितुं समागतेनोदायिराझा तत्रस्थपुष्पाणि म्लानानि दृष्ट्वा सूक्ष्मदृष्ट्या विलोकितं झातं चेयं मूलप्रतिमा नास्ति. इतस्तेन सुवर्णगुलिकापि नो दृष्टा, अनिलगतिहस्त्यागमनचिह्नानि च दृष्टानि, ततो दासीप्रतिमयोरपहारकं चंडप्रद्योतं ज्ञात्वा चतुरंगसेनामादाय स नऊ यिनीप्रति गतः, तत्र युझे चंडप्रद्योतं जीवतं गृहीत्वा तस्य ललाटपट्टे मम दासीपतिरित्यदराणि तेन लिखितानि. ततो यावद्राजा प्रतिमामुत्पाटयति तावदाकाशे वाणी जाता यद्दीतनयपत्तने रजोवृष्टिनविष्यति ते. नाहं तत्र नागमिष्यामि, ततो राजा तां वंदित्वा पश्चाजतः, पथि मेवे वर्षति तत्र नगरं स्थापयित्वा स्थितस्तद्दशपुरानिधानं नगरं जातं. अथ तत्र पर्युषणापर्वणि समागते नदायिना पौषधं कृतं, नो
जनायाहृतेन चंडप्रद्योतेन चिंतितमद्यायं मम भोजने विषं दास्यति. इति विचार्य तेन सूदंप्रति । प्रोक्तं ममाप्यद्योपवासोऽस्ति. तवृत्तांतं श्रुत्वोदायिना सांवत्सरिकप्रतिक्रमणे तं सधर्मिणं दामयित्वा
For Private and Personal Use Only