________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना थितं हे प्रिये यदि त्वं देवलोके व्रजेस्तदा मम सत्यधर्मस्त्वया प्रदर्शनीयः, राझ्या च तत्प्रतिपन्नं.
ततः सा दीदोपेतानशनं कृत्वा मृत्वा सौधर्मदेवलोके गता. अथ देवदत्ता नाम्नी कुजा दासी तां प्रतिमामहर्निशं पूजयति. प्रभावतीजीवदेवेन राज्ञः प्रतिबोधायाने के नपायाः कृताः, परं स न प्रतिबुधस्तदा देवेन तस्मै तापसरूपं विधाय स्वादुफलानि दत्तानि, तथाविधान्यफलप्राप्तिबुब्धकं च रा. जानं विधाय स तं वाटिकामध्ये समानीतवान. तत्र च तेन वहवस्तापसा विकुर्विताः, यावदाजा वृ. दाफलानि गृह्णाति तावते सर्वे तापसास्तं तामयितुं यष्टिपाणयः प्रधाविताः, प्रणष्टो राजा दूरस्थजै. नमुनीनां शरणं गतः, साधुभिश्च मधुरवाक्यैस्तच्चित्तं शांतं कृतं. ततो देवेन प्रकटीनय जैनधर्म तस्य मनः स्थिरीकृतं, शुब्सम्यक्त्वधारी च स संजातः, देवेन तस्मै कथितं पुनरपि कार्यावसरेऽहं स्मरणीयः, ततः स देवो देवलोके गत नदायी च सुखेन राज्यं पालयति.
अयैको गांधारान्निधः श्रावकोऽनेकतीर्थानि वंदित्वा शाश्वतजिनचैत्यवंदनार्थ वैताब्यसमीपे समागतः, परं तदुपरि गंतुमसमर्थोऽन्त्, तदा तेन प्रतिझा कृता यदि शाश्वतजिनचैत्यानां में वंदनं भविष्यति तदैवाहमाहारं करिष्ये. एवं पंचदिवसानंतरं तत्तपसाकृष्टशासनदेवतया तस्य मनोरथः
For Private and Personal Use Only