SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- | यामास, कथितं च तया स्वामिन् सैष धर्मराजदृतः समागतोऽस्ति. अय चकितेन राझा चिंतितमन हो मे पूर्वजाः संसारसागरजीताः श्वेतवालदर्शनादागेव प्रव्रज्याप्रवहणाधिरूढा मोदनगरे गताः संति, अहं त्वद्यापि विषयकर्दमनिममोऽस्म्यतो मांप्रति घिगिति विचार्य स निजपुत्रप्रसन्नचंद्राय रा. ज्यं दत्वा स्वयं धारिण्या सह तापसी दीदां जग्राह. ॥ अथ प्रथमत एव गर्भवत्या धारिण्या तत्र तपोवने पुत्रैकः प्रसूतो वल्कलैरानगदितत्वेन च तस्य वल्कलचीरीति नाम दत्तं, धारिणी च तत्र सू. तिरोगेण मृत्युमाप, तदा सोमचंद्रोऽरण्यमहिषीणां दुग्धपानतस्तं वल्कलचीरिणं पोषयामास. क्रमेणासौ यौवनं प्राप्तो वनफलानयनादिनिर्निजपितुः परिचर्या करोति. तत्र स्त्रीरहिते तपोवने वसन्न सौ स्त्रीनामापि न जानाति. अय प्रसन्नचंडेण श्रुतं यत्तपोवनप्रसवितो ममैको वातारण्यवासी सं. जातोऽस्ति, परं तमत्रानीय मया तस्मै राजभागो देय एवेति विचार्य तेन चित्रकारमाहूयोक्तं त्वया मम पितृपादपवित्रिते तपोवने गत्वा मेऽनुजस्य यथास्थितरूपमालेख्यात्र समागत्य तचित्रितरूपं मह्यं समर्पणीयं. चित्रकारोऽपि तत्र गत्वा युक्त्या तस्य यथास्थितरूपमालेख्य राझोऽर्पयामास, कथि| तं च तेन हे राजन स तेऽनुजो नूनमरण्यवासी पशुरिवाऽदृष्टसंसारविभवो न कस्यापि जनस्य वि. For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy