________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- गारकारको ग्रीष्मकालेंगारकरणार्थमटवीमध्ये प्राप्तो जातश्च तृषातुरः, ततो जलार्थ बहुब्रमणं कुर्वता |
| तेन स्तोकजसबहुलकर्दमयुतं पब्बलं दृष्टं, तत्कदमयुतं पानीयं जिह्वालेहनपूर्वकं पीत्वापि स तृप्तो न जातस्ततोऽग्रे गलन्मूठया पतितः, स्वप्ने च तेनानेकतमागकूपसमुत्र थपि जलपानतो निर्ज लीकृताः, जागृतोऽसौ तृषातुरमेवात्मानमपश्यत्. एवं हे कामिनि कर्दमयुक्तजलतुल्य नवद्भोगै हं तृप्तीनवितुमिबामि. तदा पद्मसेनयोक्तं हे स्वामिन् त्वं नूपुरपंडिताशृगालकयां शृणु ? यथा राजगृ. हनगरे देवदत्तान्निधः स्वर्णकारोऽवसत. तस्य पुत्रो देवदिन्नाभिधस्तस्य नार्या च दुर्गिलानिधा. सा सुंदररूपलावण्ययौवनामुपेता निजकटादशरश्रेणिभिरनेकतरुणपुरुषचित्तपक्षिणः पातयंती नगरे स्वबंदतया ब्रमति. थयैकदा सा ग्रीष्मौ स्नानार्थ तटिनीतटप्राप्ता सकलांगपरिहितस्वर्णरत्नावृषणा जलदेवीवाशोभत. मदनगंधगजेंद्रकुंभस्थलाविव मुक्तमालालंकृतौ जगज्जयसमुद्यतमकरध्वजमही. धरगिरिदुर्गाविव पयःप्रवाहोत्पत्तिस्थानौ निजस्तनमंमलौ दर्शयंती सा शनैःशनैः स्वकीयकंचुकमुत्तारयामास. ततो नदीजलमध्ये समागत्य स्वकीयोच्चपीनस्तनौ तुंबयंती जलकल्लोलानवगाहमाना स. खीनिः सह विविधनर्मकेलिकुतूहलोपेतवचन विलासर्वशिनामपि पुंसां कामोन्मादं जनयंती, चाप
For Private and Personal Use Only