________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना गाथा-नंदीसररुयगेसुवि । सुरगिरिसिहरेवि एगफालाए ॥ जंघाचारणमुणिणो । गति नातवपनावणं ॥ १३ ॥ व्याख्या-नंदीश्वरे रुचकद्वीपे मेरुशिखरेऽपि चैकेन फालेन जंघाचारणवि
द्याचारणमुनी निजतपःप्रभावेण गतः ॥ १३ ॥ अथ ते चारणमुनयो विविधा भवंति, विद्याचा २५२
रणा जंघाचारणाश्च. विद्याचारणस्य नित्यं षष्टपारणे सति लब्धिः समुत्पद्यते, स च करतलैकसंयोगे त्रिवेलं जंबूद्दीपं परित्रम्य समायाति. तिर्यग्गत्या च समुत्पतिते सति स्फालेनैकेन मानुषोत्तरे याति, द्वितीयस्फालेन च तस्मादुत्पत्य नंदीश्वरे याति, तत्र च चैत्यानि वंदित्वोत्पत्य चेकेने स्फालेनैवात्र समायाति. अयोर्ध्वगत्यैकेन स्फालेन मेरौ नंदनवने याति, चुमिसकाशानंदनवनं पंचशतयोजनोचमस्ति, तस्मादुत्पत्य मेरोरग्रभागशिखरे पंडकवने याति, तत्र च चैत्यानि प्रणम्यैकेनैव स्फालेनात्र समायाति. अथ जंघाचारणतपोलब्धिर्निरंतरमष्टमतपःपारणे कृते सति समुत्पद्यते. तब्ब. ब्धिवान्मुनिः करतलैकसंयोगे कृते सप्तवेलं जंबृद्दीपे परित्रम्य समायातीति तस्य शीघगतिज्ञेया. ति. र्यग्गत्यैकेन स्फालेन स रुचकहीपे याति, चैत्यानि च नमस्कृत्य द्वितीयस्फालेन स नंदीश्वरे समा याति, तत्र च चैत्यानि वंदित्वा समुत्पत्य चात्र समायातीति तस्य तिर्यग्गतिज्ञैया. अयोर्ध्वगत्यैकेन
For Private and Personal Use Only