________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- च राजानं तत्र समानीय तत्कलेवरं दर्शयामासुः, तदातिदुर्गंधयुतं शृगालादिभिनंदितं कृमिकुलव्या.
कुलं च तन्निरीक्ष्य राज्ञा चिंतितं धिग्मां यदर्थ मया धर्मकुललकादि त्यक्तं तत्स्वरूपं त्वीदृशं दृ.
श्यते. शति वैराग्यपरेण तेन पुत्राय राज्यं दत्वा सुधर्माचार्यसमीपे दीदा गृहीता, निर्मलतपांसि २३५
च तप्त्वा तृतीयदेवलोके स देवो जातस्ततश्श्युत्वा रत्नपुरे श्रावककुले समुत्पन्नो जिनधर्माभिधोऽसौ । शुष्सम्यक्त्वं पालयति. अथ स नागदत्तजीवः स्त्रीवियोगतो दुर्ध्यानेन मृत्वा तिर्यग्योनिषु च बहु परित्रम्य दरिडी ब्राह्मणो जातस्तत्र च फुःखगर्भितवैराग्येण स सन्यासी जातः, हिमासतपः कुर्वन रत्नपुरे समागतः, तदा तापसभक्तेन राज्ञा स पारणार्थ निमंत्रितो यावज्जनसमुहैर्वेष्टितो महोत्सव पूर्वकं नगरे समायाति तदा पथि तेन स जिनधर्मश्रावको विनोकितः, तं दृष्ट्वाल्लसितपूर्व नववैरे. ण तेन तापसेन राज्ञे प्रोक्तं यदि त्वमस्य श्रावकस्य पृष्टे स्थाली संस्थाप्य मां नोजयसि तदैवाह पारणं करिष्याम्यन्यथा नैव करिष्यामि. तत् श्रुत्वा तद्भक्तो राजा बलात्कारेणापि तं श्रावकमाहूय तस्य पृष्टेऽत्युष्णनोजनस्थाली संस्थाप्य तापस नोजयामास. अथ तापसनोजनानंतरं स्थाली यदा दुरीकृता तदा तत्पृष्टत्वक् समुत्तीर्णा, पतितं च तत्र कुहिरं निःसृतं च तस्मान्मांसमपि. अथ स श्रा
For Private and Personal Use Only