________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
१५१
दाना-| तिलांकमस्ति. ततस्तेन स बिंदुस्तत्रैव रक्षितः, अथैकदा राजा निजप्रासादचित्राणि विलोकयितुं स
मागतस्तदा राझ्याश्चित्रं गुह्यस्थानगततिलांकितं विलोक्य चित्रकार प्रति कुपितः, ततो राजा चित्र कारमाहूय तत्स्वरूपमपृचत्, तदान्यैरपि सर्वचित्रकारैरुक्तं स्वामिन्नस्य देवेन तत्संबंधिवरो दत्तोऽस्ति. तदा राज्ञा तत्परीदार्थमेकायाः कुब्जदास्या अंगुष्टस्तस्मै दर्शितस्तदा तेन चित्रकारेण तथानृतं त. स्याः स्वरूपमालेखितं, तथापि छन राझा तस्य चित्रकारस्य चत्वारो दक्षिणांगुब्यश्विनाः, ततोऽ. सौ दूनः साकेतपुरे समागत्य यदस्य स्तुतिपरो बनव, तदा यक्षेण तस्य वामकरे चित्रकरणवरो द. त्तः, पश्चात्तेन मृगावत्याः सविशेष स्वरूपमालेख्य चंडप्रद्योताय दर्शितं. तद् दृष्ट्वा व्यामोहितेन राझा शतानीकंप्रति स्वप्रधानं मुक्त्वा मृगावती मार्गिता, परं शतानीकेन स नर्भर्त्य निष्कासितः, तदा चंडप्रद्योतो निजसैन्यमादाय कौशांबीप्रति चलितः, इतोऽत्र शतानीकोऽतिसाररोगेण मृतस्तदा मृगावत्या निजशीलरदणकृते निजबुझेरुपयोगः कृतः, तया चंम्प्रद्योताय संदेशः प्रेषितो यन्मम भर्त्ता तु मृतः, नदयनश्च लघुरस्ति, अतोऽधुना त्वमेव ममाधारोऽसि. परं प्रथमं त्वयोदयननगर| रदणकृते शत्रुभिरप्यजेयो धनधान्यपूर्णो वैशालीवप्रः कार्यः, मोहमुढेन चंप्रद्योतेन तथैव कृतं.
For Private and Personal Use Only