________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वृत्ति
दाना | त्वेन कृष्णपक्षीयचंड लेखेव सा दिनानुदिनं कार्यभावमापन्ना एवं तां दुर्बलीयतां विलोक्य राज्ञा तत्कारणं पृष्टं तदा तयोक्तं स्वामिन दोहदा पूर्णत्वेनाहं दुर्बलीनता स्मि, परं स दोहदो हिंसामयोऽस्ति ततस्तं कथयितुं मे मनो नाभिलषति. बह्वाग्रहेण पृष्टया तया निजदोहदो ज्ञापितस्तदा राज्ञो - २१३ |क्तं हे प्रिये वंचितां मा कुरु ? यथा तव दोहदः सुखेन पूरयिष्यते तथाहं करिष्यामि यथ राज्ञा मंत्रिणमाहूय तद्दोहदपूरणोपायः पृष्टस्तदा मंत्रिणोक्तं स्वामिन् कुसुंनरसैः कुंडिकामापूर्य तस्यां राज्ञी सुखेन स्नानं करोतु. थोक्तप्रकारेण राज्ञी निजदोहदं पूर्णीकृत्य यावत्कुंमिकातो बहिर्निर्गता तागनगामिना नारं पणैकेन सा दृष्टा, ततस्तां मांसपेशीं मन्यमानोऽसौ पक्षिराद निजचरणमध्ये समुत्पाट्ाकाशे समुत्पतितः राज्ञी बह्नाकंदं करोति सुभटा यपि हाहाखं कुर्वाणा इतस्ततो मंति, परं क्रमेण स पक्षी तु दृष्टिपथातीतो वळव. राज्ञा ग्रामनगरदेश पर्वतवनकूपतडागादिषु तस्याः कृते बहुः शुद्धिः कारिता, परं सा न मिलिता एवं च चतुर्दशवर्षाणि व्यतिक्रांतानि, राजा तु तयिोगानलदग्धांतःकरणः कुत्रापि स्वकीयात्मनि सुखं न बनते. छाथैकदा तस्यामेव नगर्यो कस्यचित्स्वर्णकारस्य समीपे कोऽपि व्याधः कंकणैकं समादाय विक्रयार्थ समागतः स्वर्णकारेण त
For Private and Personal Use Only