SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना १७० तस्मै किंचिदपि दानं न ददानि. वररुचिना चिंतितं शकडालकृतप्रशंसांविना राजा दानं नैव दा. स्यतीति विचार्य रू शकडालगृहे समागत्य तस्य नार्या स्तोतुं लमः, एवं प्रतिदिनं कुर्वतो वररुचे रुपरि लक्ष्मीवती संतुष्टा, तदा तेनोक्तं हे मातर्यथा नृपसंसदि मे काव्यानां शकमालः प्रशंसां कु. त्तिथा कुरु ? लक्ष्मीवत्या तत्प्रतिपद्य शकडालाय तद् झापितं. अथ द्वितीयदिने यदा वररुचिः संसदि नृपस्तुतिबध्नवीनकाव्यानि पठित्वा विरमितस्तदा स्त्रीवचनप्रेरितेन शकडालेनोक्तं स्वामिन काव्यानि त्वेतानि मनोहराणि संति. ततस्तुष्टेन राज्ञा वररुचयेऽष्टोत्तरशतदीनारदानं दत्तं, अथैवं तंप्रति प्रतिदिनं राजा दानं दातुं लमः. अथैकदा मंत्रिणा चिंतितमयं तु मिथ्यात्ववृधिमत्सकाशा माता, अतः सा निवारणीया, इति विचार्य द्वितीयदिने तेन राजे कथितं स्वामिनिमानि काव्या नि तु जीर्णानि संति, यतो मम पुत्र्योऽप्येतानि जानंति. तद्विषयेऽहं प्रातर्नवतः प्रतीति कारयिष्या मि. अथ तस्य मंत्रिणो यदायददिन्नादिसप्तपुत्र्यः संति, स्वप्रज्ञातिशयस्तासां क्रमेणैकहित्र्यादिस. सवारावधि श्रवणानंतरं काव्यादि सुखमुखोच्चारं भवति. प्रभाते मंत्रिणा संकेतपूर्वकं ताः सप्तापि क. न्या यवनिकांतरे सन्नायां स्थापिताः, अय वररुचिरप्यागत्य स्वकीयनवोनस्तुतिनिपं तुष्टाव. तदः For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy