________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना अथाजितसेनेन गृहमागत्य शीलवत्यै तदंतकथनपूर्वकमुक्तं हे प्रियेऽधुना ते शीलखंकनचिंता मः ।
म जायते. तदा शीलवत्योक्तं हे स्वामिन त्वं चिंतां मा कुरु ? एतां मम पुष्पमालां निजकंठे स्थापयित्वा यूयं व्रजत ? यदि सा म्लानिं प्राप्नुयात्तदा त्वया मम शीलनंगो ज्ञातव्यो नो चेदहमखं. मितशीला ज्ञातव्या. अथ तां मालां कंठे निघाय स नृपेण सह प्रस्थितः, क्रमेण च ससैन्यो नृ पो वृदादिरहितायां महाटव्यां प्राप्तः, यथाजितसेनकंठे तामम्लानां पुष्पमालां दृष्ट्वा नृपेण पृष्टं. हे मंत्रिन्नस्यामटव्यां पुष्पफलादिरहितायां कुत श्यमम्लाना पुष्पमाला त्वया लब्धा ? तदाजितसेनेन स्वकीयसकलोदंतपूर्वकं निजललनाया यखंडितशीलत्वयुक्तं महासतीत्वं प्रकटीकृतं. तत् श्रुत्वा वि स्मितेन राज्ञा तत्परीदार्थ प्रबन्नवृत्त्या कामांकुरललितांगरतिकेल्यशोकान्निधानाश्चत्वारो विट्पुरुषा सकलवृत्तांतकथनपुरस्सरं शीलवत्याः पार्श्वे मुक्ताः, तेऽपि तस्याः शीलखंडनकृते प्रतिज्ञां कृत्वा ततश्वलिताः, नगरमध्ये समागत्य तैः शीलवत्या गृहनिकटे गृहमेकं गृहीत्वा निवासः कृतः, तत्र ते कामोन्मादजनकान्नृत्यगायनादिहावनावान कुर्वति, तत श्रुत्वावि शीलवती बधिरेव तानुपेक्षते. अथकदा कामांकुरेण नोगादिप्रार्थनार्थ शीलवतीपार्श्वे दुती मुक्ता, तया तत्र गत्वा शीलवत्यै तहा
For Private and Personal Use Only