________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | मंगलावत्यामागतः, महोत्सवपूर्वकं जिनदत्तेन निजपुत्रीशीलवत्यजितसेनेन सह परिणायिता, ततः वृत्ति पुत्रवध्वादिपरिवारपरिवृतो रत्नाकरः पुनः स्वनगरे समायातः, तवाजितसेनः शीलवत्या सह विषयसुखानि जानः सुखेन तिष्टति.
१५५
कदा रात्रौ सुखसुप्तया तया नदीमध्ये कटिभागवहरत्नपंचकं मृतकं यातीति वदत्याः शृगाव्याः शब्दः श्रुतस्ततः शीलवती डुतं समुछायार्धरात्रौ मस्तके घटं धृत्वा नदींप्रति चलिता. जागरमाणेन श्वशुरेणार्धरात्रावपि तां बहिर्गतीं विलोक्य चिंतितं नूनमेषा दुःशीला वर्त्तते. शीलवती तु नदीतीरे समागत्य मृतकं च जलमध्यान्निष्कास्य तस्य कटीतटाद्रत्नानि गृहीत्वा तन्मृतकं शृगाल्यै जक्षणाय समर्पितं, ततस्तूर्ण गृहे समागत्य निजशय्यायां प्रसुप्ता, प्रजाते श्वशुरेण पुत्रादीनां तद् वृत्तांतं निरूप्यैकः कूटलेखो लिखितो यहीलवती पिता शीलवतीं निजपार्श्वे कस्मैचिदविलं - वितप्रयोजनाय समाह्वयतीति तल्लेखोदतं शीलवत्यै झापयित्वा श्वशुरस्तामादाय प्रस्थितः, चतुरशी लवत्या श्वशुरादीनां मुखाकृतितस्तेषां तत्कपटपाटवं निजहृदयगोचरीकृतं. पथ पथि गतौ तौ वि श्रामार्थं कस्यचित्तरोश्वायायां प्रसुप्तौ श्वशुरस्तु तस्याश्चेष्टाविलोकनार्थं कृत्रिम निद्रायुतो जागरमा
For Private and Personal Use Only