SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृत्ति दाना| जयिष्यामस्तान धूर्तान सा वंचयामास, स्वशीलमपि च तया रक्षितं. ॥ १० ॥ शीलवतीकथा चे बं-यानंदपुरेऽरिदमनाख्यो राजा राज्यं करोति, तत्र मणिमाणिक्यमुक्ताफलादिनिजऽव्यसमूह तो स्नाकरं केवलं मकराकरमेव मन्यमानो रत्नाकराख्यो राजमान्यः श्रेष्टी परिवसति. तस्य श्रीना१५० म्नी जिनधर्मपरायणा भार्यासीत. तया पुत्राभावतोऽजितबलाख्या देवी समाराधिता. नाग्ययोगेनैकं पुत्ररत्नं लब्ध्वा तस्य तयाजितसेनेति नाम दत्तं. यथानुक्रमेण सोऽजितसेनो बाल्यभावमपाकृत्य महिलाहृदयकलापिघनगर्जतुब्यां यौवनावस्थां प्राप्तः. अयैकदा तस्य रत्नाकरस्य कोऽपि सेवको मं. गलावतीनगर्या गतोऽनृत्. तत्र तेन जिनदत्तश्रेष्टिनो गृहे कन्यकैका रूपादिगुणगणैर्दासीकृतामरांगना दृष्टा. अथ तेन पृष्टो जिनदत्तोऽवदत यदि कोऽप्यस्यास्तुव्यरूपादिगुणोपेतो हासप्ततिकला निपुणो वरो मिलिष्यति तदा तेन सार्धमहमेतस्या मे कन्यायाः पाणिग्रहणं कारयिष्यामि. तत् श्रुत्वा तेन सेवकेनोक्तं मम श्रेष्टिरत्नाकरस्यैको जितसेनानिधः कलाकलापनिपुणः पुत्रोऽस्ति. तत् श्रुत्वा हृष्टेन श्रेष्टिना स्वपुत्रीसंबंधकरणार्थ निजपुत्रो जिनशेखरानिधस्तेन सार्ध तत्र प्रेषितस्तेन त । तागत्य रत्नाकराय सर्वा वार्ता निरूपिता पाणिग्रहणं च मेलितं. ततो रत्नाकरो निजपरिवारयुतो For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy