________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना | तद् दृष्ट्वा शंकाकुलचेता बुद्धदासस्तस्या गृहे गमनागमनं तत्याज, विस्तृता च सा वार्त्तानिलारूदेव वृत्तिसकलेऽपि नगरे पथ सुभद्रा निजनिमित्तं जिनशासनमालिन्यमुपस्थितं ज्ञात्वा हृदि खिन्ना सती
कायोत्सर्गे चकार, गृहीतश्च तयेत्यभिग्रहो यदा ममोपरितः कलंक मिदमुत्तरिष्यति तदैवाहं कायो१३४ सर्गे पारयिष्यामि अथ तस्याः सतीत्वमाहात्म्यतः शासनदेवतया प्रत्यक्षीय कथितं हे वत्से प्रा तरहमस्या नगर्याः प्रतोली कपाटान्नियंत्रयिष्यामि त्वया सूवतंतुबद्दचाखिन्या कूपाज्जलं निष्कास्य प्रतोखी सिंचनीया, एवं कृते सत्येव कपाटाः समुद्घटिष्यंति, जिनशासनापत्राजना च विलयं यास्यति इत्युक्त्वा साऽदृश्यता. पथ प्रातर्नगरप्रतोव्यनुद्घाटनतः सर्वेऽपि मनुष्य तिर्यंचो व्याकुलीनृय स्थिताः राज्ञापि तत्रागत्य दस्त्यादिनिः कपाटा आकर्षिताः परं केनाप्युपायेन ते नो टिताः, तदा व्याकुलीत नृपतिस्तदैविककोपकृत्यं विचिंत्य स्नानं कृत्वा शुद्धवस्त्राणि परिधाय गंधद्रव्ययुतवलिदानादि विधाय कथयामास यः कोऽपि देवः क्रुद्धो जवेत्तेन सर्वोपरि कृपा कर्तव्या. तदा चंपानगरीस्था कापि महासती सूत्रतंतुवद्दचालिन्या कूपाऊलं निष्कास्य यदि तलेन प्रतोलीः सिंचयिष्यति तदैव तस्याः शीलमाहात्म्यतः प्रतोदयः समुद्घ टिष्यंतीत्याकाशवाणी जाता. ततो
For Private and Personal Use Only