________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११६
दाना- सा चिंतयामास, अहोऽत्रार्थ रामस्य किं दृषणं ? ममैव प्राकृतउष्कर्मणामयमुदयो बव. अयन
; त्वहं परिहताः परं जिनोक्तो धर्मो मां मा परिहरतु. अथ सीतां नमस्कृत्य स्वाम्याझैकपालने नि. जसार्थकतां मन्यमानो रथिको मनसि दुःखं वहमानोऽपि नयनान्यामश्रूणि मुंचन स्थमादायायो ध्यांप्रति चलितः, इतस्तत्र परनारीसहोदरतुल्यः पुंमरीकानिधनगराधिपतिवज्रजंघनामा नृपस्तत्र स. मायातस्तेन विलापान कुर्वती सीतांप्रति पृष्टं, हे भगिनि त्वं कासि? केन दुःखेनात्र गहनगहने समागतासि ? तहचनतस्तं सत्पुरुषं ज्ञात्वा संतुष्टया सीतया स्वकीयः सर्वोऽपि वृत्तांतस्तस्मै निवेदितः, राजा तामाश्वास्य निजनगर्यामानीतवान्, निजभगिनीकृत्य चावासमध्ये रक्षिता, तत्र तया पु. त्रयुगलं प्रसवितं, राज्ञा च महोत्सवपूर्वकं तयोर्लवांकुशानिधाने दत्ते, क्रमेण तत्रैव च तौ वर्धितो.
श्तो रथिकेनायोध्यायामागत्य सीताकृतविलापादंतकथनपूर्वकं सर्वोऽपि तवृत्तांतो रामाय कथितः, तत् श्रुत्वा पश्चात्तापं कुर्वाणो रामः सीतावियोगःखविदीर्णमानसो रथिनमादाय तूर्ण त.
व वने समागतः, कृतं च तेन स्थाने स्थाने परित्रम्य तत्र सीताया गवेषणं, किंतु निर्नाग्यवता । रंककुटुंबिना निधानमिव तेन कापि सीतामुखं नो दृष्टं. ततस्तां यूथब्रष्टां मृगीमिवैकाकिनी कानन
For Private and Personal Use Only