________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना ततो रामाझया सुग्रीवो हनुमंतमाकार्य रामनामांकितमुडिकयोपेतं सीताप्रवृत्तिशुव्यर्थ लंका. नयां प्रेषितवान्. हनुमानपि रामं प्रणम्य ततो गुतं गगनावना लंकायां प्राप्तः, तत्र विनीषणकुंनक
दिपरिवारपरिवेष्टितं सनास्थितं रावणं नमस्कृत्य तेनोक्तं हे राजन त्वं महासती सीतां मुंच ? नो ११
चेद्रामः कमलनालमिव तव मस्तकं वेदयिष्यति. तत् श्रुत्वा क्रोधोठतेन रावणेन हनुमद्गृहणार्य निजसेवका आदिष्टाः, तो हनुमान रावणं पादप्रहारतोऽविलंबं सिंहासनादधो निपात्य स्वयं प्रपलाय्याशोकवाटिकायां समागतस्तत्राशोकवृदतले मुखमवनतीकृत्य हस्ततलविन्यस्तमस्तका मलीनचीवराणि दधाना स्नानांगविलेपनादिरहितोष्णोष्णनिःश्वासान्निष्कासयंती रामनामैकतानलीना सी. ता तेन दृष्टा. तूर्ण तस्याः समीपमागत्य तेन तां महासती प्रणम्य रामनामांकितमुद्रिका तस्या ह. स्ते दत्ता कथिता च रामकुशलोदंतपूर्वकं सकलापि वार्ता. मुद्रिकादर्शनतः सहर्ष चमत्कृता सीता निजहृदयगतनिस्सीमरामस्नेहकदंबकावि वं बहिर्निष्कासयंतीव निजनयनान्यां हर्षाश्रूणि मुमोच.
हनुमतोक्तं हे मातरधुना त्वया चिंता न कर्तव्या, रामोऽधुनैवात्र सैन्ययुतः समागमिष्यति. वैरिणं | च निहत्य विरहदुःखितायास्तव शुहिं करिष्यति. श्युक्त्वा हनुमांस्ततो निःसृत्यामिना लंकां प्रज्ज्वा
For Private and Personal Use Only