________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८
ष० ब्राह्मणभाष्यम् ।
or featखण्डः ।
।
अथैतावृक्षु विधास्यमानेन वहिष्पवमाने सामानु लोन्यं विधत्ते - ता वा एता इति । समर्था भवन्ति । यद्येनं पराय मानुलोम्येन गौयन्त इत्यर्थः । आज्यस्तोत्रेषु तासां प्रातिलोम्य' विधत्ते - प्रतीच्यइति । येन प्रतीय: प्रत्यङ्मुखाः प्रतिलोम्ययुक्ता भवन्ति तेन मनुष्यलोकाय युज्यते देवलो - कापेक्षया मनुष्यलोकस्य प्रत्यग्भूतत्वात् । प्रशंसापूर्व धूर्गानं विधत्ते - एष वा वजात इति । तस्य वहिष्यवमानस्य सम्बन्धिन्यो धुरो येन गीयन्ते गायत्री गौतरेव केवलविकारा धुरः । यद्योगाचोपि धुर इत्युच्यन्ते । एष वाव अय मेव जात: जन्म फलवान् । एष वाव अवलुप्तजरायुः । जरायुर्गर्भवेष्टनं तद्रहितः श्रज्ञानरहित इत्यर्थः । अत एत्र श्रविजीन: ऋत्विकर्माह: य: एवं विद्दान् जानन्धुरो गायति तं जानमेवैन मन्नाधाय परिवणत्येव उन्हातार मेवान्नभक्षणाय समर्थ करोतीत्यर्थः । किञ्च उभावन्रमत्त उहाता यजमानश्वोभावत्रमत्तः । तत्र प्रथमगाने विशेषण
माह या प्रथमा इति । तत्र या प्रथमा धूः ता मन्नाद्यं भूयादिति ध्यायन् गायेत् । तत्प्रशंसति रेतस्य इति तत्तेन ध्यान पूर्वकेण गानेन ऋत: सिक्काय मेकाचैव प्रजोत्पत्तिमेवेत्यर्थः । vari प्रति दधाति । धारयतीति । तत्रत्यं हिङ्कारं प्रतिषेधति नहिं कुर्यादिति । हिङ्कारनिन्दया तदर्जनं प्रशंसति यविष्णुर्य्यादिति । व्याख्यात मेतत् । तस्या इन्दो रेतस्या दर्शयति रेतस्या इति । छन्दोरेतस्या प्रथमा गायत्री युज्यते मनव प्रजापतिना प्राणत्वेन धीयते ॥
For Private and Personal Use Only