________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२ प्रपाठक १ खण्डः ।
रणत्वात् । अत्रापि नियम माह पङ्क्तिच्छन्दसा इति । पूव वद् व्याख्य यम् । एवं सर्वास्वक्षु गानं विधाय किञ्चित्तदनुद्य फलदर्शनेन स्तौति इहेव च वा इति । गायत्रीच्छन्दोयुक्ते प्रातःसवने त्रिष्टुभं दृतीया मृचं गायति जगती चतुर्थी गायति अनुष्टुभं पञ्चमौं गायति षष्ठों पक्ति गायति । एवं सोम मि हैव चकारात्परत्रापि त्रिरुक्ति रादरार्था । मनसा गच्छति । सङ्कल्पनाभीष्टानि प्राप्नोति इत्यर्थः । गायत्रे गानं दर्शयति गायत्रे हे गायतौति । तत् फलं दर्शयति प्राणमेवेति । तत्तेन योर्गानेन प्राण मेवाभ्येति । हि यस्माद्गायत्रं यथा क्रत्वङ्गत्वात् वहिष्यवमानेपि विशेषान्तरं विधत्ते रथन्तरति। उत्तरा मृचं रथन्तरवर्णान्तां गायेत् । अत्र विशेष माह द्राह्यायण:-तस्या जड़ प्रस्तावाच्चत्वार्यक्षराण्यभिष्टोभेदिति । तस्यायमर्थः । तस्या रथन्तरवर्णोत्तमात् प्रस्तावादूर्द्ध मुद्गीथस्यादितश्चतुरक्षरं रथन्तरवद्भकारैरभिष्टोभेदिति। तत् प्रशंसन्ति इयं वै इति । इयमेव ऋक् रथन्तरं तद्धम्मकत्वात् । किञ्च अस्या मेव ऋचि सामनि च प्रतितिष्ठतौति यहा अस्यां गोयमानाया मेवं यजमानः प्रतितिष्ठतौति । यज्ञफलं भवेदिति । इति श्रीमायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे
घड्विंशब्राह्माणाख्ये हितोयब्राह्मणे द्वितीयप्रपाठके
प्रथमः खण्डः ॥ १॥
For Private and Personal Use Only