________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६
ष. ब्राह्मणभाष्यम् ।
बहुतमापुरुषाबहुसन्ततिपर्यन्त मन्न मत्तीत्यर्थः किञ्च य एवं वेद सोऽपि अन्नादो भवति । तत्रैव विशेषोत्तर माह। निरुताञ्चेति। ता मृचन्त्रिरुताच गायेत् अयमर्थः। तस्य चत्वारी गीयते। अवनीः तात्रिनयन् क्रमण निरुक्त मनिरुक्तमिव व्यत्यासङ्गायेदिति । तथा च द्राह्यायणः-तस्याः द्वितीयं पादं नि यात्तृतौये चाक्षरे पञ्चम षष्ठे इत्यस्यार्थः । अस्या द्वितीयं पादं निरुक्तं गायेत् हतीये पादे प्रथमं चतुरक्षर मनिरुक्तम् । पुन: पञ्चमषष्ठे निरुक्त गायेत्। हिकारादूच पुनरप्यनिरुक्त मित्येवं व्यत्यासमिति तत्प्रशंसति निरुतेन वै इति। अस्या मृचि निरुकत्वेनैव अत्रयोक्तं निरुपनै निरुत्पनैः वाक्यालम्बनं भजते किञ्च अस्या निरुक्तं तत् कार्य मुपजीवन्ति यश्चैव वेद सोऽपि वाचं भुतो य एना मुपजीवति च । अत्र नियम माह अनुष्टुप्छन्दसा इति। एषां छन्दसा मनुष्टुप्छन्दचतुष्टं भूतभविष्यद वर्तमानस्य पादचतुष्ट मिति चतुष्टसाम्यादेव तया प्राजापत्या सर्व मेवध्यायन् गायेत् । हि यस्मादिदं जगत् प्राजापत्वं प्रजापतिसम्बन्धीति । अथ ऋधक सोमस्वस्तय इति। अस्यां गानं विधत्ते षष्ठों गायन्ति। अत्र विशेषं दर्शयति-तस्मात् । हे अक्षरे षडक्षरपर्यन्तम् उदासं गायेत् । तदेव मतभेदेन दर्थितवान् सूत्रकारः सञ्जम्मानोदायिवा कावा३ इति धानञ्जय्यः । कवा३ इति शाण्डिल्य इति तदक्षरसंख्यां गायति। तत् प्रशंसति षड़त इति । षट्स्वेवं वसन्तादिषु सर्व प्रतितिष्ठति । कोण विभिन्नस्य कालस्य सर्वोत्पत्तिमनिमित्तका.
For Private and Personal Use Only