________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प. ब्राह्मणभाषाम् ।
सिच्यते। तत्रत्य हिङ्कारं निषेधति न हिं कुयादिति। हिङ्कारनिन्दया तहर्जनं प्रशंसति वची वै इति । निगदसिद्ध मेतत् । नियमान्तर माह रेतस्या इति। रेतस्या प्रथमा ऋक् छन्दसा गायत्री देवतया प्राजापत्या प्रजापतिना गौतत्वादित्येव सर्वं धारयतया रेतस्या गायेत् । हि यस्मादिदं सर्व रेतः। तथा च श्रूयते प्रजापते रेतोदा देवानां रेतो वर्षाः वर्षस्य रेत ओषधय इत्यादि । रेतस्यायाः सेतिकर्तव्यताकं गानं विधायेदानों द्वितीयाया मभिते मधुना पय इत्यस्यां गानं विधत्ते । द्वितीयायां गायतौति गायेदित्यर्थः । तत्र विशेष माह तस्मादिति। तस्या मृचि हे अक्षरे सशयनी व्यतिषजति व्यतिषत कुर्यात्। ते के अक्षरे इत्यत उक्तम् मध्यमस्य पदस्याथर्वाणो अशिथयुरिति । अस्य पादस्योत्तममन्त्यमक्षरमुत्तमस्य देव देवाय देवयुमिति अस्य च प्रथमं वाक्षरं तथा च द्राह्यायणेन गानमे व्यतिषङ्गं दर्शितवान् आथर्वाणो अशिश्रादे३ पूर्व देवायदा इति एतत् प्रशंसति व्यतिषक्ताविति । स्पष्टार्थः । गाने नियम दर्शयति गायत्रीच्छन्दसे ति। छन्दसा गायत्री देवतया आग्नेयौ। अत्यधिष्ठानरूपां पृथिवीं ध्यायत्रेतया गायेदिति । अथ सनः पवस्वशंगव इत्यत्र टतीयायां गानं विधत्ते रतीयां गायतीति। गाने विशेषमाह-तां बलवदिवौरसेव गायतीति । ता मृचं बलदिव प्रयच्छत्तदिव । उरःस्थाने नवोद्गायेदित्यर्थः। विशेषमाह तस्या इति । तस्या ऋच उत्तमा हे अक्षरे द्योतयतीति
For Private and Personal Use Only