________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२
ष० व्राह्मणभाष्यम् ।
शरीत्या स पुमान् सदृशो दक्षिणार्थ दिजातिगम्यत्वादेव होमविशेषहुतशिष्ट सौम्यं चर प्राशीयात् उद्गाता। तस्माद् भक्षणादनाद्यं तं जनं क्रामति प्राप्नोति यो जनो अवाद्याय समर्थः सवपि अब नात्ति किञ्च अस्मात् प्राशनापितरोऽपि हप्ता भवन्तीति शेष: अतो जन्येन जनहितेनानेन भक्षणासौम्येनैवानमत्ति अदनाददन सामर्थनैवानमत्तीत्यर्थः । न केवल मिहलोके किन्तु परत्राप्यन्नादो भवतीति ॥ ७॥ इति श्रीसायणाचार्यविरचिते माधवौये बेदार्थप्रकाशे षड्विंशब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये
सप्तमः खण्डः ॥ ७॥
॥ इति प्रथमः प्रपाठकः ॥ १ ॥
-
-
For Private and Personal Use Only