________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ६ खण्डः ।
दर्शयति-प्रायश्चित्तं होण्यामोति। पुनर्मर्कट आहकिमिति । इत्यारुणिरुत्तरमाह-सर्व प्रायश्चित्तमिति । पुन: मर्कट: पृच्छति-किं सर्वप्रायश्चित्तमिति । इत्यारुणिरुत्तरमाह-महाव्याहतौरिति । सहोवाचो मारुणेइति । स मर्कट: ओ मित्यङ्गीकत्यैव मुवाच है हे पारणे आहुतिमान् आहुतियुक्तस्त्व मर्कटोशूनाद आजहार अत: सर्वप्रायश्चित्तं होयामीति यद्र्षे कथमिति तदिदाञ्च कथं कस्येदं प्रायश्चित्त मिति कथमन्नासीरित्यर्थः । पुनरारुणि रुत्तर माह-सहोवाचेति । स एव मुवाच यच्च कम्मणो न्यूनत्वम् अधिकत्व मवगतं ज्ञातं यद्यपि चानवगतं तस्य सर्वस्य ज्ञातस्याऽञातस्य विहितविशेषप्रायश्चित्तस्यैषैव महाव्याहतौरव प्रायश्चित्तिरिति शास्त्रतोऽवगच्छतौति । अस्तु प्रकृते कि मायात मित्यत्राह तस्मादिति । यस्मादेवं तस्मादेतां महाव्याहृती मेव सर्वप्रायश्चित्तार्थ जुहुयात् । तत्रैव प्रायश्चित्तान्तर माह अपि वेति । अपिवाऽथवा अज्ञात मनवगतं यन्य नत्व मधिकत्वम् यदपिवाऽज्ञातं यज्ञस्य सम्बन्धि मिथ ऋत्विग्भिः मिथः क्रियते। हे अग्ने अस्य यजस्य सम्बन्धि तदुभयं कल्पय। फलसमर्थं कुरु । हि यस्मात् त्वं यथाकथं कमणः स्वरूपं वेत्थ जानासि । स्वाहा सुहुतमस्तु इत्यनेन मन्त्रेण जुहुयात्। अपिवा इति । अपिवा प्राजापत्यां प्रजापत्यै इत्यस्य व्याख्यानं युक्तं नोऽस्माकं तदभीष्ट मस्तु किं तु वयं रयीणां धनानां पतयः स्वाहेति । अनेन मन्त्रेण प्राजापत्यां प्राजापति देवताका माहुतिं जुहुयात्। ततेनैव आत्मानं च यजमानं च स्वेनाभीष्टेन
For Private and Personal Use Only