SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रपाठकः ५ खण्ड: । समिधः प्रस्थानीयायाः प्रस्थानीयायाः प्रस्थान मनुयाजप्रचारस्तदर्था समिधस्थानौया तस्य आधानपर्यन्तम् श्रथ वाध्वर्यु होत्रो: कर्माभावेऽपि ब्रह्मवचो न कामचारः किन्तु तत्रापि ब्रह्मा प्रायेण वाग्यतः स्यादिति ऋग्वेदविहितकमेन्यूनातिरेके प्रायश्चित्तत्वेन ब्रह्मणा कर्त्तव्यं व्याहृतिहोमं विधातुमादौ वेदत्रयसारत्वेन च व्याहृतौः प्रशंसन्ति प्रजापतिर्वा इति । प्रजापतिर्ब्रह्मा इमान् प्रसिद्धान् त्रीन्वेदानसृजत । तेन सृष्टास्ते वेदा एनं प्रजापतिं नां धित्वन्नाप्रीणयन् ततः प्रजापतिस्तेभ्यः सारजिष्टचया तानभ्य पीड़यत्तेभ्यः पौड़ितेभ्यः भूर्भुवखरिति व्याहृतित्रय मतरत्किसनिरगच्छेत् । तस्य विवरणम् । ऋग्भ्यो ऋग्वेदाद्भूरित्यचरत्सव्याहृतिरूपश्च । स सोऽयं भूलोकोभवन् । यजुर्भ्यां यजुर्वेदाद्भुव इत्यचरसरसोऽन्तरिचलोको भवेत् । सामभ्यः सामवेदात् स्वरित्यवरस: स्वर्गोलोको भवेदिति । प्रथमं व्याहृतिहोमं सस्तुतिकं विधत्ते । तद्यदिति । तत्र यदि ऋग्वेदविहितात् कर्मणः उल्वणं न्यूनमधिकं वा होत्राकं वा होत्रादिभिः क्रियेत । तत्तर्हि गार्हपत्यमग्निं परेत्य भूः खाहेत्यनया व्याहृत्या जुहुयात् । अयं वै अयमेव भूर्लोको गार्हपत्यं अयमेव लोकऋग्वेदः । तद्वैतेनैव होमेन इमं लोकञ्च ऋग्वेदञ्च खेन स्वकीयेन रसेन सारेण समईयति समृद्द करोतौति । द्वितीयव्याहृतिहोमप्रशंसां विधत्ते अथ यदीति । अथेत्यवान्तरवाक्योपक्रमे यजुष्टो यजुर्वेदविहितात् कर्मणो यद्युल्वणं न्यूनमधिकं वा श्रध्वय्यादिभि: ३ २५ For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy