________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ५ खण्ड: ।
वै
तु खलु एतस्य ग्रामस्य शीर्णं कोटराद्युपहतं वा गृहादिकं अनुसमादधे किञ्चित् समर्थः समाधत्ते । एवं वै वदत् सैवाहं यज्ञस्य वैकल्पपरिहाराय अर्थिनानेन यजमानेनाधि करिष्यामि नियुक्तोस्मीति तेनोक्तास्ते ब्राह्मणास्तस्मै कुसुरुविन्दाय मनसि स्थितमभिप्रायजातं कः कश्चिदवोचदिति ब्रुवाण: हिं कृत्य हिंकारं कृत्वोत्तस्थुरिति इति शब्दो वाक्य समाप्तिद्योतनार्थः ॥ ४ ॥ इति श्रीसायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे षडि' शब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
२३
अथ पञ्चंमखण्डः ।
वाङ्मनसः स्वरूपविदं खलु विश्वामित्रायैव कथमुवाच । वसिष्ठाय ब्रह्मेोक्तवान् कथं चोक्तमिति । विश्वामित्राय मन इति । एवं ब्रह्मेति वशिष्ठाय तद्वैतस्मादेवैतद्दृ वाशिष्ठ' वासिष्ठस्यैवावधारणं स एव ब्रह्म विन्दति एवं वाङ्मनसयोर्वेदितारं वाशिष्ठञ्च प्रशस्येदानीं तद्दिदं वाशिष्ठ वा ब्राह्मणं कुर्वीर्तेति विधत्ते श्रपि हैवमिति । अपि ह स्वत एव एवम्विदं वा यथोक्त प्रकारेण वामनसयोर्वेदितारं वा वशिष्ठ गोत्रोत्पन्न वा त्रयोविदं वा ब्रह्माणं कुर्वीत । सोदाहरणं वाङ्मनसयोर्यज्ञनिर्वाहकत्व दर्शयति तद्यथेति । तत्तैव सति यथा लोके कचित्समर्थ: उभयवर्तनिना रथेन उभौ वर्त्तन्यौ चक्रे यस्य तेन रथेन यां
For Private and Personal Use Only