________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक ४ खण्ड: ।
१८
तहत्तदीयगानेन तत्र यजमाननियोगः प्रधानं किन्तु यथोक्तग्रहशस्वक्तृप्तिः । तथा सति यदिच्छेत् तर्हि यजमानो नानुक्तोऽपि गायेदिति विवक्षित मिति। अतो विधिनिषेधयो रुभयोरपि सूत्रकारेण दर्शितत्वाईकल्पिकोऽयं विधिरित्य वगम्यते। विश्वरूपागानं प्रशंसन्ति। क्षत्रं वै इति प्रगौतमन्वसाध्या स्तुति: स्तोत्रम् । क्षत्रं वै क्षेमं यागरक्षाहेतुत्वात्। अप्रगीतसाध्या स्तुति: शस्त्रं । विद्यागसम्पबेतुत्वात् । यदि विश्वरूपां गायेत् अस्य यजमानीयक्षत्रेण विश मनुपुष्टि मनुसृज्य वीर्य मनुवत्मत्तनि सन्ततगामिनां करोति । अथो अपि च स्तुतशस्त्रयो रेव समारम्भाय सम्यगुपपत्तय एव व्यवस्रंसाया विच्छेदासन्तत्यै विश्वरूपागानं भवति। विश्वरूपागानस्य कर्तविशेषादर्शनात्परीक्षया कर्तव्यतां दृढ़यति एतच स्माहेति। मित्रयुसुतो ग्लावो ग्लावनाम कश्चिदृषिः एतदक्ष्यमाण माह उक्तवान् किल अद्य प्राङ्ग वै प्रातरेव पापवसीयसं व्याकरिषयामीति अश्रेष्ठ मह्य मिदं श्रेष्ठमिति विभागं करोतीति । एवं शुद्धः स ग्लाव: उपवसथ्ये अग्नीषोमौयेऽहनि अपररात्रे प्रातरनुवाकात् प्रागित्यर्थः । सदस्येवोदमख आसीन उपविष्टो विश्वरूपां गार्यात आसीत्। सदसौत्ये तत्समीपस्थ हविडानमण्डपं लक्षयति । स पूर्वया द्वारा हविद्दाने प्रपद्यत इति पूर्वत्र विद्यमानान् सदसि हविर्द्ध (नयो रभावाद विश्वरूपागानेन ज्योतिर्गानं दर्शयितु कश्चिदुपवादं दर्शयति । तदुपवाद इति तत्रोऽपवादोऽन्योऽन्यसंवाद कश्चिदस्ति तस्यैव प्रदर्शनं हे अध्वर्यो स्तुतं स्तोत्र मनुहोता प्रातरनुवा
For Private and Personal Use Only