SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रपाठकः ४ खण्डः । सवनेषु गायत्रधा न्यूमाचरत्व' प्रशंसति तदाहुरिति । इति तत्रैव सर्वमाहुर्वह्मवादिनः सवनाना मेव खश्वेते गायवा दिरूपाः प्राणा उदानाः सञ्चारहौनास्तिष्ठन्ति तेषां सवनसम्बधिनां गायत्रप्रादीनामुनाचरत्व ेन प्राणानामुत्सृष्टिरेव भवतीति इति श्रीसायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे षड्विंशव्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमाध्याये तृतीयः खण्डः ॥ ३७ अथ चतुर्थखण्डः । ज्योतिष्टोमे सुत्येहनि प्रातरनुवाको ब्रुवं विश्वरूपमानं विधातु तत्र कथित् प्रकारमादौ विधत्ते श्रध्वय्यवित्याहेति हे अध्वयों मे मह्यं उहात्रे मा मनिवेद्य वेदन मामन्त्रण मकत्वा होवे प्रातरनुवाकं शस्त्रं मा स्मोपाकरो: उपाकरणं माकार्षी रित्यध्वनाध्वर्युं प्रत्याह वदेदित्यर्थः इति शब्दान्तरवाक्यपरिसमातिद्योतनार्थः तथाच द्राचायणः । न माननामन्त्रा प्रातरनुवाक सुपाकुया इत्यध्वर्यु ब्रूयादिति । ततः किमित्यवाह सोध्वर्युः प्राहेति । सरएव मुहावोक्तोध्वर्युः प्राह । प्रातरनुकोणकरणात् पूर्व मेन माश्रयेदित्यर्थः । ततः किं कुर्य्यात् उद्गातेत्यत्राह । सहत इति । स उहाता इतोऽध्वर्युणामन्त्रितः सन् हविद्दानमडपं गच्छेत् गत्वा स पूर्वया द्वारा हविधानमण्डपस्य पूर्वेण द्वारेण हविहाने सोमात्मकस्य हविष आधार भूते हे शकटे For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy