________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठक: ३ खण्डः ।
१५
माने उपास्मै गायतानर इत्येषा गायत्री जनाक्षरा प्रातः सवनं प्रजानां प्रजात्यै । पवमानायेन्दव इति हितोयपादस्य सप्ताक्षरत्वात्तथा तत्रैव दविद्युतत्यारुचेत्येषां गायत्री न्यूनाक्षरा। तथा आज्येष्वपि होतुराज्ये तन्वासमिद्भिरगिर इत्येषा गायत्री। तत्र सहच्छोचायविध्येतिः हतीयः मप्ताक्षरः । आनोमित्रा वरुणेत्ययं पादः सप्ताधरः अच्छावाकस्यापि इन्द्राग्नी आगतं सुतमित्येषा गायत्री। तत्र गौर्भिर्नभोवरेण्यमिति द्वितीयः पादः सप्ताक्षरः एवमन्यदपि उदाहायमेतत्रयायहुः जनाक्षरत्वं प्रजानां प्रजात्यै प्रजननाय भवति। तथाहि लोके प्रजाः सर्वाः जनादिव गुह्यप्रदेशात् न्यूनादेव देशात्परिच्छिनदेशाः प्रजायन्ते। एवं सामान्यत: प्रातः सवने गायत्रया न्यूनाक्षरत्व प्रशस्येदानों तत्रैवामहीयवं गायत्रयां यौधाजयञ्च साम भवति । जनाक्षरा इति प्रामहीयवे साम्नि गायत्री न्यूनाक्षरा। तद्यथा उच्चातजात मन्धस इति एषा गायत्री न्यूनाक्षरा दिविसद्भूम्याददइति द्वितीयस्य सप्ताक्षरत्वात् । तथा एनाविश्वान्धर्य इत्येषापि आद्या द्वितीययोः सप्ताक्षरत्वात् प्रजानामित्यादि पूर्ववत् । माध्यन्दिनसवने पृष्ठे षु वामदेव्ये यजमानलोक एव स मध्ये हि यज्ञस्य यजमान इति। जनाक्षराइति । अन्यैश्वानाक्रान्त एव हि देश यजमानस्तिष्ठति न त्वन्यैराक्रान्ते अतस्तत्स्थाने गायत्रमा न्यूनाक्षरत्व गुण एव वा वामदेव्यस्य यजमानस्थानत्वोपपादनम् । तथाहि यतस्य मध्ये वामदेव्य क्रियते स यजमानस्य दान्तनी यज्ञस्य मध्ये एव वर्ततइति
C
For Private and Personal Use Only