SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ ष० ब्राह्मणभाष्यम् । त्यवमानादूर्द्ध यदेव स्थोत्र' क्रियते । यच्छब्देन सर्वस्तोत्राणां सामान्येन निर्देशाद यानि स्तोत्राणि क्रियन्त इत्यर्थः । तानि पृष्ट मध्यदेहस्य पञ्चाद्भाग: तस्थानीयानि । कथमित्याह बार्हतानीति । तानि पृष्ठानि बार्हतामि वृहतौषु भवानि । तत्र बृहद्रथन्तरयोर्हव्हतीप्रमुखत्वात् श्यैतनौवसकालेयानां पुनर्व्वहतीष्व वोत्पन्नत्वात् किञ्च तान्ये कगायत्रीकाणि । वृहत्यएव कोकसाः पृष्ठमभिसमावन्तीति तानि पृष्ठानि बार्हतानि वामदेवनामकस्यैकस्य साम्नो गायत्रयामुत्पन्नत्वात् । यस्मादेवं तस्मात्परपुरुषपर्थवः पार्खास्थीनि । हत्य एव भूयस्यो हृहत्य: पार्श्वयोनि यास्तथा वृहत्येव कौकसाः पृष्ठास्थावयवाः तत्स्थानीयाः पृष्ठमभिसमायन्ति पृष्ठस्थानीया एव गायत्रीं समागच्छन्ति । तत ऊर्ध्व क्रियमाणं किमात्मकमित्यत्राह अथ यदेव तत इति । अथ पुनस्ततो माध्यन्दिनः पवमानादूर्ध्वं यदेव क्रियमाणं स्तोत्रं स आर्भवः पवमानः पुरुविधस्य यज्ञस्य मुखं भवति मुखे सम्भूतत्वादित्यर्थः । मुख्यादीनां गायत्रप्रादीनां प्राणादिरूपतामाह प्राणो गायत्रीति । मुखरूपे आर्भवपवमानविद्यमाना गायत्री प्राणस्थानीया प्राणापानव्याना स्त्रिवृत्प्राणः ॥ Treat fruदेत्यतो गायत्राः प्राणसाम्यम् उष्णिक्ककुभौ श्रोत्र अनुष्टुब्वाग्वाक् जातीया । वाग्वा अनुष्ट बिति श्रुतेः । जगतौ चक्षुः । यदतानुक्तमनुदाहृतमक्षरपंत्यादिषु विकृतिषु क्रियमाणं छन्दः तत्किमा - त्मकमित्यत्राह पुष्टिर्यदन्यदिति । यदन्यदुदाहृतेभ्यो व्यति For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy